SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा वशादवसेयः । “तिरिथीणदुहगतिगं" ति । त्रिकशब्दः प्रत्येकं सम्बध्यते, 'तिर्यत्रिकं' तिर्यगतितिर्यगानुपूर्वीतिर्यगायुर्लक्षणं 'स्त्यानर्द्धित्रिकं' निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिस्वरूपं 'दुर्भगत्रिकं' दुर्भगदुःखराऽनादेयखरूपमिति ॥ ४ ॥ अणमज्झागिइसंघयणचउ निउज्जोयकुखगइथि त्ति । पणवीसंतो मीसे, चउसयरि दुआउयअबंधा ॥५॥ चतुःशब्दस्य प्रत्येकं योजनात् "अण" ति अनन्तानुबन्धिचतुष्कम् अनन्तानुबन्धिको धमानमायालोभाख्यम् , मध्याः-मध्यमा आद्यन्तवर्जा आकृतयः-संस्थानानि मध्याकृतयः तासां चतुष्कं-न्यग्रोधपरिमण्डलसंस्थानं सादिसंस्थानं वामनसंस्थानं कुजसंस्थानमिति, तथा काकाक्षिगोलकन्यायात् मध्यशब्दस्यात्रापि योगः, ततो मध्यानि-मध्यमानि प्रथमान्तिमवर्जानि संहननानि-अस्थिनिचयात्मकानि तेषां चतुष्कम्-ऋषभनाराचसंहननं नाराचसंहननम् अर्धनाराचसंहननं कीलिकासंहननमिति, "निउ" ति नीचैर्गोत्रम् , उद्योतम् , कु-कुत्सिताऽप्र. शस्ता खगतिः-विहायोगतिः कुखगतिः अप्रशस्तविहायोगतिरित्यर्थः, "स्थि" ति स्त्रीवेद इत्येतासां पञ्चविंशतिप्रकृतीनां साखादनेऽन्तः, अत्र बध्यन्ते नोत्तरत्रेत्यर्थः, यतोऽनन्तानुबन्धि. प्रत्ययो ह्यासां बन्धः, स चोत्तरत्र नास्तीति । ततश्चैकाधिकशतात् पञ्चविंशत्यपगमे "मीसि" ति 'मिश्रे' सम्यग्मिथ्यादृष्टिगुणस्थाने षट्सप्ततिबन्धे भवति । ततोऽपि “दुआउयअबंध" ति द्वयोमनुष्यायुर्देवायुषोरबन्धो व्यायुरबन्धस्तस्माद् व्यायुरबन्धादिति हेतोश्चतुःसप्ततिर्भवति । इदमुक्तं भवति-इह नारकतिर्यगायुषी यथासङ्ख्यं मिथ्यादृष्टिसास्वादनगुणस्थानयोर्व्यवच्छिन्ने, शेषं तुम. नुष्यायुर्देवायुयमवतिष्ठते तदपि मिश्रो न बध्नाति, मिश्रस्य सर्वथाऽऽयुबन्धप्रतिषेधात् । उक्तं च ___ सम्मामिच्छद्दिट्ठी, आउयबंधं पि न करेइ । ति । ततः षट्सप्ततेरायुद्धयापगमे चतुःसप्ततिर्भवतीति ॥ ५॥ सम्मे सगसयरि जिणाउबंधि वइर नरतिग बियकसाया। . उरलदुगंतो देसे, सत्तट्ठी तिअकसायंतो ॥६॥ ___ "सम्मि" ति अविरतसम्यग्दृष्टिगुणस्थाने "सगसयरि" ति सप्तसप्ततिप्रकृतीनां बन्धो भवति । कथम् ? इति चेद् उच्यते-पूर्वोक्तैव चतुःसप्ततिः "जिणाउबंधि" ति तीर्थकरनाममनुष्यायुर्देवायुर्द्वयबन्धे सति सप्तसप्ततिर्भवति । एतदुक्तं भवति-तीर्थकरनाम तावत् सम्यक्त्वप्रत्ययादेवात्र बन्धमायाति, ये च तिर्यग्मनुष्या अविरतसम्यग्दृशस्ते देवायुर्बध्नन्ति, ये तु नारकदेवास्ते मनुष्यायुर्वघ्नन्ति, ततोऽत्रेयं प्रकृतित्रयी समधिका लभ्यते, सा च पूर्वोक्तायां चतुःसप्ततौ क्षिप्यते जाता सप्तसप्ततिरिति । “वइर" ति वज्रर्षभनाराचसंहननं "नरतिय" त्ति 'नरत्रिकं-नरगतिनरानुपूर्वीनरायुर्लक्षणं "बियकसाय" ति द्वितीयकषायाः-अप्रत्याख्यानावरणाः क्रोधमानमायालोमाः “उरलदुग" ति औदारिकद्विकम्-औदारिकशरीरौदारिकाङ्गोपाङ्गलक्षणमित्येतासां दशप्रकृतीनामविरतसम्यग्दृष्टावन्तो भवति, एता अत्र बध्यन्ते नोसरत्रेत्यर्थः । अय १°कं मध्याकृतिचतुष्कं-न्य° ख०॥ २ °कं संहननचतुष्कम्-ऋ° क० ख० घ० ङ० ॥ ३ सम्यग्मिभ्यादृष्टिरायुर्बन्धमपि न करोति ॥ ४ °युर्निवर्तयन्ति, क० ख०॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy