SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५-८] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । मत्राभिपायः-द्वितीयकषायांस्तावत् तदुदयाभावान्न बध्नाति देशविरतादिः; कषाया घनन्तानुबन्धिवर्जा वेद्यमाना एव बध्यन्ते, “'जे वेएइ ते बंधइ" इति वचनात् ; अनन्तानुबन्धिनस्तु चतुर्विंशतिसत्कर्माऽनन्तवियोजको मिथ्यात्वं गतो बन्धावलिकामानं कालमनुदितान् बध्नाति । यदाहुः सप्ततिकाटीकायां मोहनीयचतुर्विंशतिकावसरे श्रीमलयगिरिपादाः इह सम्यग्दृष्टिना सता केनचित् प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव स विश्रान्तो न मिथ्यात्वादिक्षयाय उद्युक्तवान् , तथाविधसामग्र्यभावात् । ततः कालान्तरेण मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति । ततो बन्धावलिकां यावत् नाद्याप्यतिक्रामति तावत् तेषामुदयं विना बन्ध इति । (पत्र १३५-२) नरत्रिकं पुनरेकान्तेन मनुष्यवेद्यम् , औदारिकद्विकं वज्रऋषभनाराचसंहननं च मनुष्यतिर्यगेकान्तवेद्यम् , देशविरतादिषु देवगतिवेद्यमेव बध्नाति नान्यत् , तेनासां दशप्रकृतीनामविरतसम्यग्दृष्टिगुणस्थानेऽन्तः । तत एतत् प्रकृतिदशकं पूर्वोक्तसप्तसप्ततेरपनीयते, ततः “देसे सत्तहि" ति 'देशे' देशविरतगुणस्थाने सप्तषष्टिर्बध्यते "तियकसायंतु" ति तृतीयकषायाणांप्रत्याख्यानावरणक्रोधमानमायालोभानां देशविरतेऽन्तः, तदुत्तरेषु तेषामुदयाभावाद अनुदितानां चाबन्धात् “जे वेयइ ते बंधई" इति वचनाद् इति भावः । एतच्च प्रकृतिचतुष्क पूर्वोक्तसप्तषष्टेरपनीयते ॥ ६ ॥ ततः तेवट्टि पमत्ते सोग अरइ अथिरदुग अजस अस्सायं । वुच्छित छच्च सत्त व, नेइ सुराउं जया निढें ॥७॥ "तेवट्टि पमत्ति" ति त्रिषष्टिः प्रमत्ते बध्यते । शोकः अरतिः “अथिरदुग" त्ति अस्थिरद्विकम्-अस्थिराऽशुभरूपम् "अजस" ति अयशःकीर्तिनाम असातमित्येताः षट् प्रकृतयः प्रमत्ते "वुच्छिज्ज" ति प्राकृतत्वादादेशस्य व्यवच्छिद्यन्ते-क्षीयन्ते बन्धमाश्रित्येति भावः । यद्वा सप्त वा व्यवच्छिद्यन्ते । कथम् ? इत्याह-"नेइ सुराउं जया निटुं" ति यदा कश्चित् प्रमत्तः सन् सुरायुर्बन्डुमारभते निष्ठां च नयति सुरायुर्बन्धं समापयतीत्यर्थः तदा पूर्वोक्ताः षट् सुरायुःसहिताः सप्त व्यवच्छिद्यन्त इति ॥ ७॥ गुणसहि अप्पमत्ते, सुराउबंधं तु जइ इहागच्छे । अन्नह अट्ठावन्ना, जं आहारगदुगं बंधे ॥८॥ "गुणसहि" त्ति एकोनषष्टिरप्रमत्ते बध्यत इति शेषः । कथम् ? इत्याह-'सुरायुर्बध्नन्' देवायुर्बन्धं कुर्वन् यदि चेद् ‘इह' अप्रमत्तगुणस्थान आगच्छेत् । इयमत्र भावना-सुरायुर्वन्धं हि प्रमत्त एवारभते नाऽप्रमत्तादिः, तस्यातिविशुद्धत्वात् , आयुष्कस्य तु घोलनापरिणामेनैव बन्धनात् , परं सुरायुर्बध्नन् प्रमत्ते किञ्चित् सावशेषे सुरायुर्बन्धेऽप्रमत्तेऽप्यागच्छेत् , अत्र च सावशेष सुरायुर्निष्ठां नयति तत एकोनषष्टिरप्रमत्ते भवति “देवीउयं च इक्क, नायवं अप्पमत्तम्मि ।" इति वचनात् । “अन्नह अट्ठावन्न" ति अन्यथा यदि सुरायुर्बन्धः प्रमत्तेनारब्धः प्रमत्तेनैव निष्ठां नीतस्ततोऽष्टापञ्चाशदप्रमत्ते भवतीति । १-२ यान् वेदयते तान् बध्नाति ॥ ३ °तुष्टयं ख० ग०॥ ४ देवायुष्कं चैकं ज्ञातव्यमप्रमत्ते ॥ क. ११ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy