________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३-४] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
७९ विंशतिः २८ आयुषि चतस्रः ४ नाम्नि त्रिनवतिः ९३ गोत्रे द्वे २ अन्तराये पञ्च ५ सर्वपिण्डेऽष्टाचत्वारिंशं शतं भवति, तेन च सत्तायामधिकारः। उदयोदीरणयोः पुनरौदारिकादिबन्धनानां पञ्चानामौदारिकादिसङ्घातनानां च पञ्चानां यथाखमौदारिकादिषु पञ्चसु शरीरेष्वन्तर्भावः । वर्णगन्धरसस्पर्शानां यथासङ्ख्यं पञ्चद्विपञ्चाऽष्टभेदानां तद्भेदकृतां विंशतिमपनीय तेषामेव चतुर्णामभिन्नानां ग्रहणे षोडशकमिदं बन्धनसङ्घातनसहितमष्टचत्वारिंशशताद् अपनीयते, शेषेण द्वाविंशेन शतेनाधिकारः । बन्धे तु सम्यग्मिथ्यात्वसम्यक्त्वयोः सङ्क्रमेणैव निष्पाद्यमानत्वाद् बन्धो न सम्भवतीति तयोविंशतिशताद् अपनीतयोः शेषेण विंशत्युत्तरशतेनाऽधिकार इति प्रकृतिसमुत्कीर्तना कृता । प्रकृत्यर्थः स्वोपज्ञकर्मविपाकटीकायां विस्तरेण निरूपितस्तत एवावधार्य इत्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः । तत्र बन्धे सामान्येन विंशं शतं भवतीति प्रकृतम् । तदेव च विंशं शतं 'तीर्थकराहारकद्विकवर्ज' तीर्थकराहारकद्विकरहितं सत् "मिच्छम्मि" ति भीमसेनो भीम इत्यादिवत् पदवाच्यस्यार्थस्य पदैकदेशेनाऽप्यभिधानदर्शनात् मिथ्यात्वे मिथ्यादृष्टिगुणस्थान इत्यर्थः । एवमुत्तरेष्वपि पदवाच्येषु पदैकदेशप्रयोगो द्रष्टव्यः । "सतरसयं" ति सप्तदशाधिकं शतं सप्तदशशतं बन्धे भवतीति । अयमत्राभिप्रायः-तीर्थकरनाम तावत् सम्यक्त्वगुणनिमित्तमेव बध्यते, आहारकशरीराऽऽहारकाङ्गोपाङ्गलक्षणमाहारकद्विकं त्वप्रमत्तयतिसम्बन्धिना संयमेनैव । यदुक्तं श्रीशिवशर्मसूरिपादैः शतके
सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं । (गा० ४४ ) इति । मिथ्यादृष्टिगुणस्थाने एतत्प्रकृतित्रयवर्जनं कृतम् , शेषं पुनः सप्तदशशतं मिथ्यात्वादिमिहें। तुभिर्बध्यत इति मिथ्यादृष्टिगुणस्थाने तद्वन्ध इति ॥ ३ ॥ नन्वेता मिथ्यादृष्टिप्रायोग्याः सप्तदशशतसङ्ख्याः सर्वा अपि प्रकृतय उत्तरगुणस्थानेषु गच्छन्त्युत काश्चिदेव ? इत्याशङ्कयाह
नरयतिग जाइथावरचउ हुंडायवछिवहनपुमिच्छं।
सोलंतो इगहियसउ, सासणि तिरिथीणदुहगतिगं ॥४॥ 'नरकत्रिकं' नरकगतिनरकानुपूर्वीनरकायुर्लक्षणम् “जाइथावरचउ" ति चतुःशब्दस्य प्रत्येकमभिसम्बन्धाद् ‘जातिचतुष्कम्' एकेन्द्रियजातिद्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिखरूपं 'स्थावरचतुष्कं' स्थावरसूक्ष्माऽपर्याप्तसाधारणलक्षणं, हुण्डम् आतपं छेदपृष्ठं "नपु" ति नपुंसकवेदः “मिच्छं" ति मिथ्यात्वमित्येतासां "सोलंतु" ति षोडशानां प्रकृतीनां मिथ्यादृष्टिगुणस्थाने 'तत्र भाव उत्तरत्राभावः' इत्येवंलक्षणोऽन्तो विनाशः क्षयो भेदो व्यवच्छेद उच्छेद इति पर्यायाः । इयमत्र भावना-एता हि षोडश प्रकृतयो मिथ्यादृष्टिगुणस्थान एव बन्धमायान्ति, मिथ्यात्वप्रत्ययत्वादेतासाम् ; नोत्तरत्र सास्वादनादिषु, मिथ्यात्वाभावादेव । यत एताः प्रायो नारकैकेन्द्रियविकलेन्द्रिययोग्यत्वाद् अत्यन्ताऽशुभत्वाच्च मिथ्यादृष्टिरेव बनातीति सप्तदशशतात् पूर्वोक्ताद् एतदपगमे शेषमेकोत्तरं प्रकृतिशतमेवाविरत्यादिहेतुभिः साखादने बन्धमायाति, अत एवाह-"इगहियसय सासणि" ति एकाधिकशतं सास्वादने बध्यते । "इगहियसय" इत्यत्र विभक्तिलोपः प्राकृतत्वात् । एवमन्यत्रापि विभक्तिलोपः प्राकृतलक्षण१सम्यक्त्वगुणनिमित्तं तीर्थकरं संयमेनाहारम् ॥
For Private and Personal Use Only