SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः । [गाथा बन्धे 'विशं शतं' विंशत्युत्तरं शतं कर्मप्रकृतीनां भवतीति शेषः । तथाहि-मतिज्ञानावरणं श्रुतज्ञानावरणम् अवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणमिति पञ्चधा ज्ञानावरणम् । निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानर्द्धिः चक्षुर्दर्शनावरणम् अचक्षुर्दर्शनावरणम् अवधिदर्शनावरणं केवलदर्शनावरणमिति नवविधं दर्शनावरणम् । वेदनीयं द्विधासातवेदनीयम् असातवेदनीयं च । मोहनीयमष्टाविंशतिभेदम् , तद्यथा--मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति दर्शनत्रिकम् , अनन्तानुबन्धी क्रोधो मानो माया लोभः ४ अप्रत्याख्यानावरणः क्रोधो मानो माया लोभः ४ प्रत्याख्यानावरणः क्रोधो मानो माया लोभः ४ संज्वलनः क्रोधो मानो माया लोभः ४ इति षोडश कषायाः, स्त्री पुमान् नपुंसकमिति वेदत्रयम् , हास्यं रतिः अरतिः शोको भयं जुगुप्सेति हास्यषट्कम् , मिलितं नव नोकषायाः। आयुश्चतुर्धा-नरकायुः तिर्यगायुः मनुष्यायुः देवायुरिति । अथ नामकर्म द्विचत्वारिंशद्विधम् , तद्यथा-चतुर्दश पिण्डप्रकृतयः अष्टौ प्रत्येकप्रकृतयः त्रसदशकं स्थावरदशकं चेति । तत्र पिण्डप्रकृतय इमाः–गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम बन्धननाम सङ्घातननाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनामेति । आसां भेदा दर्यन्ते-नरकतिर्यङ्मनुष्यदेवगतिनामभेदात् चतुर्धा गतिनाम, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामेति पञ्चधा जातिनाम, औदारिकवैक्रियाऽऽहारकतैजसकार्मणशरीरनामेति पञ्चधा शरीरनाम, औदारिकाङ्गोपाङ्गं वैक्रियाङ्गोपाङ्गम् आहारकाङ्गोपाङ्गनामेति त्रिधाऽङ्गोपाङ्गनाम, बन्धननाम पञ्चधा औदारिकबन्धनादि शरीरवत् , एवं सङ्घातनमपि, संहनननाम षड्नेदम्-वज्रऋषभनाराचम् ऋषभनाराचं नाराचम् अर्धनाराचं कीलिका सेवात चेति, संस्थाननाम षडिधं-समचतुरस्रं न्यग्रोधपरिमण्डलं सादि वामनं कुजं हुण्डं चेति, वर्णनाम पञ्चधा-कृष्णं नीलं लोहितं हारिद्र शुक्लं चेति, गन्धनाम द्विधा-सुरेभिगन्धनाम दुरभिगन्धनामेति, रसनाम पञ्चा-तिक्तं कटुकं कषायम् अम्लं मधुरं चेति, स्पर्शनाम अष्टधा-कर्कशं मृदु लघु गुरु शीतम् उष्णं स्निग्धं रूक्षं च, आनुपूर्वी चतुर्धा-नरकानुपूर्वी तिर्यगानुपूर्वी मनुष्यानुपूर्वी देवानुपूर्वीति, विहायोगतिर्द्विधा–प्रशस्तविहायोगतिः अप्रशस्तविहायोगतिरिति आसां चतुर्दशपिण्डप्रकृतीनामुत्तरभेदा अमी पञ्चषष्टिः । प्रत्येकप्रकृतयस्त्विमाः-पराघातनाम उपघातनाम उच्छासनाम आतपनाम उद्योतनाम अगुरुलधुनाम तीर्थकरनाम निर्माणनामेति । त्रसदशकमिदम्-त्रसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम सुखरनाम आदेयनाम यशःकीर्तिनामेति । स्थावरदशकं पुनरिदम्-स्थावरनाम सूक्ष्मनाम अपर्याप्तनाम साधारणनाम अस्थिरनाम अशुभनाम दुर्भगनाम दुःखरनाम अनादेयनाम अयशःकीर्तिनामेति । पिण्डप्रकृत्युत्तरभेदाः पञ्चषष्टिः प्रत्येकप्रकृतयोऽष्टौ त्रसदशकं स्थावरदशकं च सर्वमीलने त्रिनवतिः । गोत्रं द्विधा—उच्चैर्गोत्रं नीचैर्गोत्रं च । अन्तरायं पञ्चधा-दानान्तरायं लाभान्तरायं भोगान्तरायम् उपभोगान्तरायं वीर्यान्तरायं चेति । एवं च कृत्वा ज्ञानावरणे कर्मप्रकृतयः पञ्च ५ दर्शनावरणे नव ९ वेदनीये द्वे २ मोहनीयेऽष्टा१पाङ्गमिति ख०ग०॥ २°रभिनाम असुरभिना क० ख० ग०॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy