________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
२-३]
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । पंजत्तमित्तबिंदियजहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे, समए समए निरंभंतो ॥ (विशे० गा० ३०६१) सव्ववइजोगरोह, संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणयस्स पढमसमओववन्नस्स ॥ (विशेषा० गा० ३०६२) जो किर जहन्नजोगो, तदसंखिजगुणहीणमिकेक्के । समए निरंभमाणो, देहतिभागं च मुंचंतो ॥ ( विशेषा० गा० ३०६३) रुंभइ स कायजोगं, संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो, सेलेसीभावणामेइ ।। (विशेषा० गा० ३०६४) हस्सक्खराइं मज्झेण जेण कालेण पंच भन्नंति । अच्छइ सेलेसिगओ, तत्तियमेतं तओ कालं ॥ (विशेषा० गा० ३०६८) तणुरोहारंभाओ, झायइ सुहुमकिरियानियहि सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालम्मि ॥ (विशेषा० गा० ३०६९) तदसंखेजगुणाए, गुणसेढीइ रइयं पुरा कम्मं । समए समए खैविउं, कमेण सबं तहिं कम्मं ॥ (विशेषा० गा० ३०८२) उजुसेढीपडिवन्नो, समयपएसंतरं अफुसमाणो ।
एगसमएण सिज्झइ, अह सागारोवउत्तो सो ॥ (विशेषागा०३०८८) इति तस्य गुणस्थानमयोगिकेवलिगुणस्थानम् १४ इति ॥ २ ॥ ___ व्याख्यातानि सभावार्थानि चतुर्दशापि गुणस्थानानीति । अथ यथैतेष्वेव गुणस्थानेषु भगवता बन्धमुदयमुदीरणां सत्तां चाऽऽश्रित्य कर्माणि क्षपितानि तथा बिभणिषुः प्रथमं तावद् बन्धमाश्रित्य क गुणस्थाने कियत्यः कर्मप्रकृतयो व्यवच्छिन्नाः ? इत्येतद् बन्धलक्षणकथनपूर्वकं प्रचिकटयिषुराह
अभिनवकम्मग्गहणं, बंधो ओहेण तत्थ वीस सयं ।
तित्थयराहारगदुगवजं मिच्छम्मि सतरसयं ॥३॥ मिथ्यात्वादिभिहेतुभिरभिनवस्य-नूतनस्य कर्मणः-ज्ञानावरणादेर्ग्रहणम्--उपादानं बन्ध इत्युच्यते । 'ओघेन' सामान्येनैकं किञ्चिद्गुणस्थानकमनाश्रित्येत्यर्थः । "तत्थ" ति तत्र
१ पर्याप्तमात्रद्वीन्द्रियजघन्यवचोयोगपर्यया ये तु । तदसङ्ख्यगुणविहीनान् समये समये निरुन्धानः ॥ सर्ववचोयोगरोधं सङ्ख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपन्नस्य ॥ यः किल जघन्ययोगस्तदसङ्ख्येयगुणहीनमेकैकस्मिन् । समये निरुन्धानो देहत्रिभागं च मुञ्चन् ॥ रुणद्धि स काययोगं सङ्ख्यातीतैरेव समयैः । ततः कृतयोगनिरोधः शैलेशीभावनामेति ॥ ह्रखाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । आस्ते शैलेशीगतः तावन्मानं सकः कालम् ॥ तनुरोधारम्भाद् ध्यायति सूक्ष्मक्रियानिवृत्तिं सः । व्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले ॥ तदसङ्ख्येयगुणायां गुणश्रेणौ रचितं पुरा कर्म । समये समये क्षपयित्वा क्रमेण सर्वं तत्र कर्म ॥ ऋजुश्रेणिप्रतिपन्नः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति अथ साकारोपयुक्तः सः॥ २ खवियं कमसो सेलेसिकालेणं ॥ इति भाष्ये पाठः ॥
For Private and Personal Use Only