________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६८
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
ननु यदि मिथ्यादृष्टिः ततः कथं तस्य गुणस्थानसम्भवः ? गुणा हि ज्ञानादिरूपाः, तत् कथं दृष्ट विपर्यस्तायां भवेयुः ? इति उच्यते — इह यद्यपि सर्वथाऽतिप्रबल मिथ्यात्वमोहनीयोदयाद् अर्हत्प्रणीतजीवाजीवा दिवस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति तथापि काचिद् मनुष्यपश्वादिप्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि भवति, अन्यथाऽजीवत्वप्रसङ्गात् । यदागमः
संबजीवाणं पि य णं अक्खरस्स अनंतभागो निचुग्धाडिओ चिट्ठह, जइ पुण सोवि आवरिज्जिज्जा ता णं जीवो अजीवत्तणं पाविज्जा । ( नन्दीपत्र १९५ - २ ) इति ।
तथाहि —समुन्नताऽतिबलजीमूत पटलेन दिनकररजनिकर करनिकर तिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः सम्पद्यते, प्रतिप्राणिप्रसिद्ध दिनरजनि विभागाऽभावप्रसङ्गात् । उक्तं चवि मेहसमुदए, होइ पहा चंदसूराणं । ( नन्दीपत्र ० १९५ - २ ) इति । एवमिहापि प्रबलमिध्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेर प गुणस्थानसम्भवः ।
यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव ? मनुष्यपश्वादिप्रतिपत्त्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्श मात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वादपि, नैष दोषः, यतो भगवदर्हत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्वदितमेकमप्यक्षरं न रोचयति तदानीमप्येष मिध्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशात् । तदुक्तम् —— पैयमक्खरं पि इक्कं, पि जो न रोएइ सुत्तनिद्दिट्ठे ।
सेसं रोयंतो वि हु, मिच्छद्दिट्ठी जमालि व || (बृहत्सं० गा० १६७ ) इति । किं पुनर्भगवदर्हदभिहित सकल जीवा जीवा दिवस्तुतत्त्वप्रतिपत्तिविकलः ? इति १ ।
Acharya Shri Kailassagarsuri Gyanmandir
-
आयम् -
(- औपशमिकसम्यक्त्व लाभलक्षणं सादयति - अपनयतीत्यायसादनम्, अनन्तानुबन्धिकषायवेदनम् । अत्र पृषोदरादित्वाद् यशब्दलोपः, कृद्बहुलमिति कर्तर्यनट्, समि परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कर्षतः षङ्गिरावलिकाभिरपगच्छतीति । ततः सह आसादनेन वर्तत इति सासादनः, सम्यग्-अविपर्यस्ता दृष्टिः- जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, सासादनश्चासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः, तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् । साखादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः, तत्र सह सम्यक्त्वलक्षणरसाखादनेन वर्तत इति साखादनः । यथा हि भुक्तक्षीरान्नविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरान्नरसमाखादयति, तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्वमंस्तद्रसमाखादयति । ततः स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं साखादनसम्यग्दृष्टिगुणस्थानम् । एतच्चैवं भवति -- इह गम्भीरापारसंसारसागरमध्यमध्यासीनो जन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्ताननन्तदुःख
For Private and Personal Use Only
१ सर्वजीवानामपि च अक्षरस्यानन्तभागो नित्योद्घोटितस्तिष्ठति, यदि पुनः सोऽपि आनियेत ततो जीवो. ऽजीवत्वं प्राप्नुयात् ॥ २ सुष्ट्रपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः ॥ ३ पदमक्षरमप्येकमपि यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयमानोऽपि हि मिथ्यादृष्टिर्जमालिरिव ॥