SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । ६९ लक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनाभोगनिर्वतितयथाप्रवृत्तकरणेन "करणं परिणामोऽत्र" इति वचनाद् अध्यवसायविशेषरूपेणाऽऽयुर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमासङ्ख्येयभागन्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्तरे जीवस्य कर्मजनितो धनरागद्वेषपरिणामः कर्कशनिबिडचिरप्ररूढगुपिलवक्रग्रन्थिवद् दुर्भदोऽभिन्नपूर्वो ग्रन्थिर्भवति । तदुक्तम् तीए वि थोवमित्ते, खविए इत्थंतरम्मि जीवस्स । हवइ हु अभिन्नपुबो, गंठी एवं जिणा विति ॥ (धर्मसं० गा० ७५२, श्राव० प्र० गा० ३२) गंठि ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि व । जीवस्स कम्मजणिओ, धणरागदोसपरिणामो ॥ (विशेषा० गा० ११९५) इति । इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति । उक्तं चाऽऽवश्यकटीकायाम् अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्याऽहंदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति । __ एतदनन्तरं कश्चिदेव महात्माऽऽसन्नपरमनिर्वृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परम विशुद्ध्या यथोक्तस्वरूपस्य अन्र्भेदं विधाय मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणाद् उपर्यतिक्रम्याऽपूर्वकरणाऽनिवृत्तिकरणलक्षण विशुद्धिजनितसामर्थ्याद् अन्तर्मुहूर्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति । अत्र यथाप्रवृत्तिकरणाऽपूर्वकरणाऽनिवृत्तिकरणानामयं क्रमः जो गंठी ता पढम, गठिं समइच्छओ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ (विशे० आ० गा० १२०३) “गंठिं समइच्छओ" त्ति प्रन्थि समतिकामतः-भिन्दानस्येति, “सम्मत्तपुरक्खड" त्ति सम्यक्त्वं पुरस्कृतं येन तस्मिन् आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः ।। एतस्मिंश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति । अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा, तस्मादेवान्तरकरणाद् उपरितनी शेषा द्वितीया । स्थापना। तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदनाऽभावात् । यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति, तथा मिथ्यात्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति । तथा च सति तस्यौपशमिकसम्यक्त्वलाभः । उक्तं च १ तस्या अपि स्तोकमात्रे क्षपित अत्रान्तरे जीवस्य । भवति हि अमिन्नपूर्वो प्रन्थिरेवं जिना ब्रुवन्ति ॥ प्रन्थिरिति सुदुर्भेदः कर्कशघनरूढगूढग्रन्थिरिव । जीवस्य कर्मजनितो घनरागद्वेषपरिणामः ॥ २०र्थोऽन्त° क० ग०॥ ३ यावद् प्रन्थिः तावत् प्रथमं ग्रन्थि समतिकामतो भवेद्वितीयम् । अनिवृत्तिकरणं पुनः सम्यक्वपुरस्कृते जीवे ॥ ४ अपुव्वं तु विशेषावश्यकभाष्ये । For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy