SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १-२ ] कर्मस्वाख्यो द्वितीयः कर्मग्रन्थः । ६७ नाथस्य परार्थसम्पदमाह । वीरश्वासौ जिनश्च कषायादिप्रत्यर्थिसार्थजयाद् वीरजिनस्तं वीर - जैनम् । 'यथा' येन प्रकारेण अभिनवकम्मग्गहणं, बंधो ओहेण तत्थ वीससयं । तित्थयराहारगदुगवज्जं मिच्छम्मि सतरस्यं ॥ ( गा० ३ ) इत्यादिवक्ष्यमाणेषु 'गुणस्थानेषु' परमपदप्रासाद शिखरारोहण सोपान कल्पेषु व्याख्यास्यमानख - रूपेषु मिध्यादृयादिषु सकलानि - समस्तानि मतिज्ञानावरणप्रभृत्युत्तरप्रकृतिकदम्बकसहितानि कर्माणि - ज्ञानावरणीयादिमूलप्रकृतिरूपाण्यष्टौ कर्माणि च खोपज्ञकर्मविपाके विस्तरेण व्याख्यातानि । कथम्भूतानि ? " बंधुदओदीरणया सत्तापत्ताणि" त्ति । तत्र मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीरनीरवद् वह्ययः पिण्डवद्वाऽन्योऽन्यानुगमाभेदात्मकः सम्बन्धो बन्धः १, तेषां च यथाखस्थितिबद्धानां कर्मपुद्गलानामपवर्तनादिकरणविशेषकृते स्वाभाविके वा स्थित्यपचये सति उदयसमयप्राप्तानां विपाकवेदनमुदयः २, तेषामेव कर्मपुद्गलानामकालप्राप्तानां जीवसामर्थ्यविशेषाद् उदयावलिकायां प्रवेशनमुदीरणा ३, तेषामेव कर्मपुद्गलानां बन्धसङ्क्रमाभ्यां लब्धात्मलाभानां निर्जरणसङ्क्रमणकृतस्वरूपप्रच्युत्यभावे सद्भावः सत्ता ४, बन्धश्च उदयश्च उदीरणा च सत्ता च बन्धोदयोदीरणासत्तास्ताः प्राप्तानि - गतानि । सूत्रे च “ उदीरणया" इत्यत्र कप्रत्ययः खार्थिकः, ‘क्षपितानि' निर्मूलोच्छेदेनाभावत्वमापादितानीति ॥ १ ॥ गुणस्थानेषु कर्माणि क्षपितानीत्युक्तम् । ततो गुणस्थानान्येव तावत् खरूपतो निर्दिशतिमिच्छे १ सासण २ मीसे ३, अविरय ४ से ५ पमत्त ६ अपमत्ते ७ । नियहि ८ अनियहि ९ सुहमु १०. वसम ११ खीण १२ सजोगि १३ अजोगि १४ गुणा ॥ २ ॥ "गुण" चि गुणस्थानानि ततः "सूचनात् सूत्रम्" इति न्यायात् पदैकदेशेऽपि पदसमुदायोपचाराद् वा इहैवं गुणस्थानक निर्देशो द्रष्टव्यः । तद्यथा – मिथ्यादृष्टिगुणस्थानं १ साखादनसम्यग्दृष्टिगुणस्थानं २ सम्यग्मिथ्यादृष्टिगुणस्थानम् ३ अविरतसम्यग्दृष्टिगुणस्थानं ४ देशविर - तिगुणस्थानं ५ प्रमत्तसंयतगुणस्थानम् ६ अप्रमत्तसंयतगुणस्थानम् ७ अपूर्वकरण गुणस्थानम् ८ अनिवृत्तिबादरसम्परायगुणस्थानं ९ सूक्ष्मसम्परायगुणस्थानम् १० उपशान्तकषाय वीतरागच्छद्मस्थगुणस्थानं ११ क्षीणकषायवीतरागच्छद्मस्थ गुणस्थानं १२ सयोगिकेवलिगुणस्थानम् १३ अयोगिकेवलिगुणस्थानम् १४ इति । तत्र गुणाः - ज्ञानदर्शनचारित्ररूपा जीवखभावविशेषाः, स्थानम् - पुनरत्र तेषां शुद्ध्यविशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इति कृत्वा, गुणानां स्थानं गुणस्थानम्, मिथ्या-विपर्यस्ता दृष्टिः- अर्हत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सि पीतप्रतिपत्तिवत् स मिथ्यादृष्टिः, तस्य गुणस्थानं - ज्ञानादिगुणानामविशुद्धिप्रकर्षविशुद्ध्यपकर्षकृतः खरूपविशेषो मिथ्यादृष्टिगुणस्थानम् । For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy