________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७-५८] कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
सरलो अगारविल्लो, सुहनामं अन्नहा असुहं ॥ ५८॥ 'अविरतः' अविरतसम्यग्दृष्टिः 'सुरायुः' देवायुष्कं 'जयति' बध्नाति, आदिशब्दाद् देशविरतसरागसंयतपरिग्रहः । वीतरागसंयतस्त्वतिविशुद्धत्वादायुन बध्नाति, घोलनापरिणाम एव तस्य बध्यमानत्वात् । बालं तपो यस्य सः 'बालतपाः' अनधिगतपरमार्थखभावो दुःखगर्भमोहगर्भवैराग्योऽज्ञानपूर्वकनिर्वर्तिततपःप्रभृतिकष्टविशेषो मिथ्यादृष्टिः, सोऽप्यात्मगुणानुरूपं किश्चिदसुरादिकायुर्बध्नाति । यदाह भगवान् भाष्यकार:
बोलतवे पडिबद्धा, उक्कडरोसा तवेण गारविया ।
वेरेण य पडिबद्धा, मरिउं असुरेसु उववाओ ॥ (वृ० संग्र० गा० १६०) अकामस्य-अनिच्छतो निर्जरा-कर्मविचटनलक्षणा यस्यासावकामनिर्जरः । इदमुक्तं भवति-"अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगअण्हाणगसेयजल्लमलपंकपरिग्गहेणं दीहरोगचारगनिरोहबंधणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसअणसणाईहिं" उदकराजिसमानकषायस्तदुचितशुभपरिणामः किश्चिद् व्यन्तरादिकायुर्वध्नाति । उपलक्षणत्वात् कल्याणमित्रसम्पर्कमानसो धर्मश्रवणशील इत्यादिपरिग्रहः। यदाहुः
सरागसंयमो देशसंयमोऽकामनिर्जरा । कल्याणमित्रसम्पर्को, धर्मश्रवणशीलता ॥ पात्रे दानं तपः श्रद्धा, रत्नत्रयाऽविराधना । मृत्युकाले परीणामो, लेश्ययोः पद्मपीतयोः ।। बालतपोऽमितोयादिसाधनोल्लम्बनानि च । अव्यक्तसामायिकता, देवस्यायुष आश्रवाः ।।
(योगशा० टी० पत्र ३०७-२) उक्ता देवायुषो बन्धहेतवः । सम्प्रति नामकर्म यद्यपि द्विचत्वारिंशदादिभेदादनेकधा तथापि शुभाशुभविवक्षया द्विविधमित्यस्य द्विविधस्यापि बन्धहेतूनाह-"सरलो" इत्यादि । 'सरल' सर्वत्र मायारहितः, गौरवाणि-ऋद्धिरससातलक्षणानि विद्यन्ते यस्य स गौरववान् , न गौरववान् अगौरववान् “आल्विल्लोल्लालवन्तमन्तेचेरमणा मतोः” (सि० ८-२-१५९) इति प्राकृतसूत्रेण मतोः स्थान इल्लादेशः । उपलक्षणत्वात् संसारमीरु:-क्षमामार्दवार्जवादिगुणयुक्तः शुभंदेवगतियशःकीर्तिपञ्चेन्द्रियजात्यादिरूपं नामकर्म बनाति । 'अन्यथा' उक्तविपरीतखभावः, तथाहि-मायावी गौरववान् उत्कटक्रोधादिपरिणामः 'अशुभं' नरकगत्ययशःकीयॆकेन्द्रियादिजातिलक्षणं नामकर्मार्जयतीति । उक्तं चमनोवाक्कायवक्रत्वं, परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं, पैशून्यं चलचित्तता ॥ सुवर्णादिप्रतिच्छन्दःकरणं कूटसाक्षिता । वर्णगन्धरसस्पर्शान्यथोपपादनानि च ॥ अनोपानच्यावनानि, यत्रपञ्जरकर्म च । कूटमानतुलाकर्माऽन्यनिन्दात्मप्रशंसनम् ॥ हिंसानृतस्तेयाऽब्रह्ममहारम्भपरिग्रहाः । परुषाऽसभ्यवचनं, शुचिवेषादिना मदः ॥ १ बालतपसि प्रतिबद्धा उत्कटरोषास्तपसा गर्विताः । वैरेण च प्रतिबद्धाः (तेषां) मृला असुरेषु उपपातः ॥ २ अकामतृष्णया अकामक्षुधया अकामब्रह्मचर्यवासेन अकामशीतातपदंशमशकामानकखेदजल्लमलपपरिग्रहेण दीर्घरोगचारकनिरोधबन्धनतया गिरितरुशिखरनिपतनतया जलज्वलनप्रवेशानशनादिभिः॥ ३र्शायन्यथापादनानि च । ग० ० योगशास्त्रे च॥
For Private and Personal Use Only