SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६२ [ गाथा देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः कषायनोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य, सामान्येनाश्रवा अमी ॥ (योगशा० टी० पत्र ३०७ - १ ) अभिहिता मोहनीयस्य बन्धहेतवः । सम्प्रति चतुर्विधस्याप्यायुषस्तानाह - "बंधइ नरयाउ" इत्यादि । 'बध्नाति' अर्जयति 'नरकायुः' नारकायुष्कं जीवः । किं विशिष्टः ? इत्याह — ' महारम्भ - परिग्रहरतः ' महारम्भरतो महापरिग्रहरतश्चेत्यर्थः । ' रौद्रः ' रौद्रपरिणामो गिरिभेदसमानकषायरौद्रध्यानाऽऽरूषितचेतोवृत्तिरित्यर्थः । उपलक्षणत्वात् पञ्चेन्द्रियवधादिपरिग्रहः । यन्यगादिपञ्चेन्द्रियप्राणिवधो, बह्वारम्भपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता || रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता । कृष्णनीलकापोताश्च, लेश्या अनृतभाषणम् ॥ परद्रव्यापहरणं, मुहुर्मैथुन सेवनम् । अवशेन्द्रियता चेति, नरकायुष आश्रवाः ॥ ( योगशा० टी० पत्र ३०७ - १) ॥ ५६ ॥ उक्ता नरकायुषो बन्धहेतवः । इदानीं तिर्यगायुषस्तानाह - तिरियाउ गूढहियओ, सढो ससल्लो तहा मणुस्साउं । पयईई तणुकसाओ, दाणरुई मज्झिमगुणो य ॥ ५७ ॥ तिर्यगायुर्बध्नाति जीवः, किंविशिष्टः ? इत्याह-- ' गूढहृदयः' उदायिनृपमारकादिवत् तथा आत्माभिप्रायं सर्वथैव निगूहति यथा नापरः कश्चिद् वेति, 'शठः' वचसा मधुरः परिणामे तु दारुणः, ‘सशल्यः' रागादिवशाऽऽचीर्णाऽनेकत्रतनियमाऽतिचारस्फुरदन्तः शल्योऽनालोचिताऽप्रतिक्रान्तः, तथाशब्दाद् उन्मार्गदेशनादिपरिग्रहः । उक्तं च उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्तध्यानं सशल्यत्वं, मायारम्भ' रिहौ ॥ शीलव्रते सातिचारो, नीलकापोतलेश्यता । अप्रत्याख्यानेकषायास्तिर्यगायुष आश्रवाः || ( योगशा० टी० पत्र ३०७ -२ ) उक्तास्तिर्यगायुर्बन्धहेतवः । अथ मनुष्यायुषस्तानाह – “मणैस्साउं" इत्यादि । मनुष्यायुर्जीवो बघ्नाति, किंविशिष्टः ? इत्याह – 'प्रकृत्या ' खभावेनैव ' तनुकषायः' रेणुराजिसमानकषायः, 'दानरुचिः' यत्र तत्र वा दानशीलः, मध्यमास्तदुचिताः केचिद् गुणाः - क्षमामार्दवाऽऽर्जवादयो यस्य स मध्यमगुणः, अधमगुणस्य हि नरकायुः सम्भवाद्, उत्तमगुणस्य तु सिद्धेः सुरलोकायुषो वा सम्भवादिति भावः । चशब्दाद् अल्पपरिग्रहाऽल्पारम्भादिपरिग्रहः । आह च— Acharya Shri Kailassagarsuri Gyanmandir अल्पौ परिग्रहारम्भौ, सहजे मार्दवाऽऽर्जवे । कापोतपीतलेश्यात्वं, धर्मध्यानानुरागिता ॥ प्रत्याख्यानकषायत्वं, परिणामश्च मध्यमः । संविभागविधायित्वं, देवतागुरुपूजनम् ॥ पूर्वालापप्रियालापौ, सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्यं, मानुषायुष आश्रवाः || (योगशा० टी० पत्र० ३०७ -२ ) उक्ता मनुष्यायुषो बन्धहेतवः । सम्प्रति देवायुषस्तानाह— अविरयमाइ सुराउं, बालर्तवोऽकामनिज्जरो जयइ । १ ग्रहाः ख० ग० कु० ॥ २ नाः क योगशास्त्रे ॥ ३ 'गुस्सा इ° ख० घ० ङ० ॥ ४ त वाडका क० ख० ग० कु० ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy