SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४-५६] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । 'दर्शनमोहं' मिथ्यात्वमोहनीयमर्जयति । तथा 'जिनमुनिचैत्यसङ्घादिप्रत्यनीकः' तत्र जिनाःतीर्थकराः, मुनयः-साधवः, चैत्यानि-प्रतिमारूपाणि, सङ्घः-साधुसाध्वीश्रावकश्राविकालक्षणः, आदिशब्दात् सिद्धगुरुश्रुतादिपरिग्रहः, तेषां प्रत्यनीकः--अवर्णवादाशातनाद्यनिष्टनिर्वतको दर्शनमोहमर्जयति । यदभाणिवीतरागे श्रुते सङ्घ, धर्मे सर्वसुरेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता ॥ सर्वज्ञसिद्धदेवापह्नवो धार्मिकदूषणम् । उन्मार्गदेशनानग्रहोऽसंयतपूजनम् ॥ . असमीक्षितकारित्वं, गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥ (योगशा० टी० पत्र ३०७-१)॥ ५५॥ दुविहं पि चरणमोहं, कसायहासाइविसयविवसमणो। बंधइ नरयाउ महारंभपरिग्गहरओ रुद्दो॥५६॥ 'द्विविधमपि' द्विभेदमपि 'चरणमोहं' चारित्रमोहनीयं-कषायमोहनीयनोकषायमोहनीयरूपं जीवो बध्नातीति सम्बन्धः । किंविशिष्टः ? इत्याह-'कषायहास्यादिविषयविवशमनाः' तत्र कषायाः-क्रोधादय उक्तखरूपाः षोडश, हास्यादयः-हास्यरत्यरतिशोकमयजुगुप्सा इति गृह्यन्ते, विषयाः-शब्दरूपरसगन्धस्पर्शाख्याः पञ्च, ततः कषायाश्च हास्यादयश्च विषयाश्च कषायहास्यादिविषयास्तैर्विवशं-विसंस्थुलं पराधीनं मनः-मानसं यस्य स कषायहास्यादिविषयविवशमनाः । इदमत्र हृदयम्-कषायविवशमनाः कषायमोहनीयं बध्नाति, हास्यादिविवशम. नास्तु हास्यादिमोहनीयं-हास्यमोहनीयरतिमोहनीयाऽरतिमोहनीयशोकमोहनीयभयमोहनीयजुगुप्सामोहनीयाख्यं नोकषायमोहनीयं बध्नाति, विषयविवशमनाः पुनर्वेदत्रयाख्यं नोकषायमोहनीयं बध्नाति । सामान्यतः सर्वेऽपि कषायहास्यादिविषया द्विविधस्यापि चारित्रमोहनीयस्य बन्धहेतवो भवन्ति । यत्प्रत्यपादि कषायोदयतस्तीव्रः, परिणामो य आत्मनः । चारित्रमोहनीयस्य, स आश्रव उदीरितः ॥ उत्प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिहाँस्यस्यामी स्युराश्रवाः ॥ देशादिदर्शनौत्सुक्यं, चित्रे रमणखेलने । परचित्तावर्जना चेत्याश्रवाः कीर्तिता रतेः॥ .. असूया पापशीलत्वं, परेषां रतिनाशनम् । अकुशलप्रोत्साहनं, चारतेराश्रवा अमी ॥ खयं भयपरीणामः, परेषामथ भापनम् । त्रासनं निर्दयत्वं च, भयं प्रत्याश्रवा अमी ॥ परशोकाविष्करणं, खशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च, शोकस्यैते स्युराश्रवाः ॥ चतुर्वर्णस्य सङ्घस्य, परिवादजुगुप्सने । सदाचारजुगुप्सा च, जुगुप्सायां स्युराश्रवाः ।। ईर्ष्या विषादगार्थे च, मृषावादोऽतिवक्रता । परदाररतासक्तिः, स्त्रीवेदस्याश्रवा इमे ॥ खदारमात्रसन्तोषोऽनीया मन्दकषायता । अवक्राचारशीलत्वं, पुंवेदस्याश्रवा इति ॥ स्त्रीपुंसानङ्गसेवोग्राः, कषायास्तीवकामता । पाखण्डिस्त्रीवर्तमङ्गः, षण्ढवेदाश्रवा अमी ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता । मधुमांसविरतानामविरत्यभिवर्णनम् ॥ विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं, तथा चारित्रदूषणम् ॥ १ °वर्जनं योगशास्त्रे ॥ २ °तभ्रंशः योगशास्ले ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy