SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ गाथा मौखर्याक्रोशौ सौभाग्योपघाताः कार्मणक्रिया । परकौतूहलोत्पादः, परहास्यबिडम्बने ॥ वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद्गन्धादिचौर्यं तीव्रकषायता ॥ चैत्यप्रतिश्रयाऽऽरामप्रतिमानां विनाशनम् | अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आश्रवाः ॥ एत एवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ दर्शने धार्मिकाणां च, सम्भ्रमः खागतक्रिया । परोपकारसारत्वमाश्रवाः शुभनामनि ॥ (योगशा० टी० पत्र ३०७ -२ ) ।। ५८ । उक्त नाम्नो बन्धहेतवः । सम्प्रति गोत्रस्य द्विविधस्यापि तानाह - गुणही मयरहिओ, अज्झयणऽज्झावणारुई निचं । पकुणइ जिणाहभत्तो, उच्चं नीयं इयरहा उ ॥ ५९ ॥ 'गुणप्रेक्षी' यस्य यावन्तं गुणं पश्यति तस्य तमेव प्रेक्षते पुरस्करोति, दोषेषु सत्खप्युदास्त इत्यर्थः । ‘मदरहितः' विशिष्टजातिलाभकुलैश्वर्यबलरूपतपः श्रुतादिसम्पत्समन्वितोऽपि निरह - ङ्कारः, 'नित्यं' सर्वदा 'अध्ययनाध्यापनारुचिः ' स्वयं पठति इतरांश्च पाठयति, अर्थतश्च खयमभीक्ष्णं विमृशति परेषां च व्याख्यानयति, असत्यां वा पठनादिशक्तौ ती बहुमानः परानध्ययनाध्यापनापरायणान् अनुमोदते, तथा 'जिनादिभक्तः' जिनानां - तीर्थनाथानाम् आदिशब्दात् सिद्धाऽऽचार्योपाध्यायसाधुचैत्यानामन्येषां च गुणगरिष्ठानां भक्तः - बहुमानपरः 'प्रकरोति' प्रकर्षेण समुपार्जयति ‘उच्चम्' उच्चैर्गोत्रम् | 'नीचं' नीचैर्गोत्रम् ' इतरथा तु' भणितविपरीतखभावः । उक्तं च Acharya Shri Kailassagarsuri Gyanmandir परस्य निन्दावज्ञोपहासाः सद्गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ सदसद्गुणशंसा च, खदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति, नीचैर्गोत्राश्रवा अमी || नीचैर्गोत्राश्रव विपर्यासो विगतगर्वता । वाक्काय चितैर्विनयः, उच्चैर्गोत्राश्रवा अमी ॥ ( योगशा० टी० पत्र ३०८ - १ ) ॥ ५९ ॥ उक्त गोत्रस्य बन्धहेतवः । साम्प्रतमन्तरायस्य ये बन्धहेतवस्तानभिषित्सुः शास्त्रमिदं समर्थयन्नाह— जिणपूयाविग्धकरो, हिंसाइपरायणो जयइ विग्धं । इय कम्मविवागोऽयं, लिहिओ देविंदसूरीहिं ॥ ६० ॥ 'जिनपूजाविघ्नकरः' सावद्यदोषोपेतत्वाद् गृहिणामप्येषा अविधेया इत्यादिकुदेशनादिभिः समयान्तस्तत्त्वदूरीकृतो जिनपूजानिषेधक इत्यर्थः । हिंसा - जीववध आदिशब्दाद् अनृतभाषण स्तैन्याऽब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिपरिग्रहस्तेषु परायणः -- तत्परः, उपलक्षणत्वात् मोक्षमार्गस्य ज्ञानदर्शनचारित्रादेस्तद्दोषग्रहणादिना विघ्नं करोति, साधुभ्यो वा भक्तपानोपाश्रयोपकरणभैषजादिकं दीयमानं निवारयति, तेन चैतद् विदधता मोक्षमार्गः सर्वोऽपि विनितो भवति, अपरेषामपि सत्त्वानां दानलाभभोगपरिभोगविघ्नं करोति, मन्त्रादिप्रयोगेण च परस्य वीर्यमपहरति, हठाच्च वधबन्धनिरोधादिभिः परं निश्चेष्टं करोति, छेदन मेदनादिभिश्च परस्येन्द्रियश १ आश्रवाः शुभनाम्नोऽथ तीर्थंकृन्नान्न आश्रवाः ॥ इति योगशास्त्रे ॥ २ "ज्ञानचा ख० ग० ६० ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy