SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अथवा ४९-५० ] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । 11 89 11 यदुदयाद् अनुपकार्यपि सर्वस्य मनः प्रियो भवति तत् सुभगनामेत्यर्थः ७ । तदभ्यधायि— अणुवक व बहूणं, होइ पिओ तस्स सुभगनामुदओ ति । सुभगुदर विहु कोई, कंची आसज्ज दूभगो जइ वि । जाय तोसाओ, जहा अभवाण तित्थयरो || सुसरा महुरसुहझुणी, आइज्जा सव्वलोयगज्झवओ । जसओ जसकित्ति इओ, थावरदसगं विवज्जत्थं ॥ ५० ॥ 'सुखरात्' सुखरनामोदयेन मधुरः - माधुर्यगुणालङ्कृतः सुखयतीति सुखः - सुखदो ध्वनिःस्वरो भवति, यदुदयाद् जीवस्य खरः श्रोत्रप्रीतिहेतुर्भवति तत् सुखरनामेत्यर्थः ८ । 'आदे-' याद्' आदेयनामोदयेन सर्वलोकेन समस्तजनेन ग्राह्यम् - आदेयं वचः - वचनं यस्य स तथा, यदुदयाद् यत्किञ्चिदपि ब्रुवाणो जीवः सर्वस्योपादेयवचनो भवति, दर्शनसमनन्तरमेव तस्याभ्युत्थानादि समाचरति तद् आदेयनामेत्यर्थः ९ । “जसउ" त्तिं यशः कीर्तिनामोदयाद् यशः - कीर्तिर्भवति । तत्र सामान्यतस्तपः शौर्य त्यागादिसमुपार्जितयशसा कीर्तनं - संशब्दनं श्लाघनं यशः कीर्तिरुच्यते । यद्वा दानपुण्यकृता कांतिः, पराक्रमकृतं यशः । Acharya Shri Kailassagarsuri Gyanmandir ५७ एक दिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः । १० इति । व्याख्यातं त्रसदशकम् । सम्प्रति स्थावरदशकं व्याचिख्यासुरतिदिशति – 'इतः ' त्रसदृश - कात् स्थावरदशकं 'विपर्यस्तं' विपरीतार्थं भवति । तथाहि — तिष्ठन्तीत्येवंशीला उष्णाद्यभितापेऽपि तत्परिहाराऽसमर्थाः स्थावराः, “स्थेशभासपिसकसो वरः ” (सि० ५-२-८२) इति वरप्रत्ययः, पृथिवीकायिका अष्कायिकास्तेजस्कायिका वायुकायिका वनस्पतिकायिका एकेन्द्रियाः, तद्विपाकवेद्यं कर्मापि स्थावरनाम । तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं खाभाविकमेव, न पुनरुष्णाद्यभितापेन द्वीन्द्रियादीनामिव विशिष्टम् १ इति । यदुदयात् सूक्ष्माः पृथिवीकायिकादयः पञ्च भवन्ति तदपि जीवविपाकि सूक्ष्मनामकर्म २ इति । यदुदयात् पूर्वोक्तखयो - ग्यपर्याप्तिपरिसमाप्तिविकला जन्तवो भवन्ति तद् अपर्याप्तनाम, अपर्याप्तयो विद्यन्ते येषां पर्याप्ता इति कृत्वा, तन्निबन्धनं नाम अपर्याप्तनाम । तत्र द्वेधा अपर्याप्ताः – लब्ध्या करणैश्च । तत्र येऽपर्याप्तका एव सन्तो म्रियन्ते, न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ति ते लब्ध्यपर्याप्ताः । ये पुनः करणानि - शरीरेन्द्रियादीनि न तावत् निर्वर्तयन्ति, अथ चावश्यं पुरस्वाद् निर्वर्तयिष्यन्ति ते करणापर्याप्ताः । इह चैवमागमः -- लब्ध्यपर्याप्ता अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते नार्वाकू, यस्मादागामिभवायुर्बद्धा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यत इति ३ । यदुदयाद् अनन्तानां जीवानां साधारणम्-एकं शरीरं भवति तत् साधारणनाम ४ । यदुदयात् कर्ण जिह्वाद्यवयवा For Private and Personal Use Only १ अनुपकृतेऽपि बहूनां भवति प्रियस्तस्य सुभगनामोदयः ॥ सुभगोदयेऽपि खलु कश्चित् कश्चिदासाद्य दुर्भगो यद्यपि । जायते तद्दोषात् यथाऽभव्यानां तीर्थंकरः ॥ २ °त्ति यशसः यशोनामकर्मोदयेन यशःकी ग० ॥ क्र० ८
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy