________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा मितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३ । यया पुनरुच्छासपायोग्यवर्गणादलिकमादाय उच्छ्वासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः । यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५। यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६ । एताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियाणां संज्ञिपञ्चेन्द्रियाणां च चतुःपञ्चषट्सङ्ख्या भवन्ति । तथा वैक्रियशरीरिणां शरीरपर्याप्तिरेवैका आन्तर्मोहूर्तिकी, शेषाः पञ्चाप्येकसामयिक्यः । औदारिकशरीरिणां पुनराहारपर्याप्तिरेवैका एकसामयिकी, शेषाः पुनरान्तर्मोहूर्तिक्यः । आह च
वेवियपज्जती, सरीर अंतमुहु सेस इगसमया ।
आहारे इगसमया, सेसा अंतमुहु ओराले ॥ ततः पर्याप्तयो विद्यन्ते येषां "अभ्रादिभ्यः" (सि०७-२-४६) इति अप्रत्यये ते पर्याप्ताः, तद्विपाकवेद्यं कर्मापि पर्याप्तनाम । यदुदयात् खपर्याप्तियुक्ता भवन्ति जीवास्तत् पर्याप्तनामेत्यर्थः ३ ते च पर्याप्ता द्विधा-लब्ध्या करणैश्च । तत्र ये खयोग्यपर्याप्तीः सर्वा अपि समर्थ्य नियन्ते नार्वाक् ते लब्धिपर्याप्ताः; ये च पुनः करणानि-शरीरेन्द्रियादीनि निर्वर्तितवन्तस्ते करणपर्याप्ता इति ।
ननु च शरीरपर्याप्त्यैव शरीरं भविष्यति, किं प्रागभिहितेन शरीरनाम्ना ?, नैतदस्ति, साध्यभेदात् । तथाहि—शरीरनाम्नो जीवेन गृहीतानां पुद्गलानामौदारिकादिशरीरत्वेन परिणतिः साध्या, शरीरपर्याप्तेः पुनरारब्धशरीरस्य परिसमाप्तिरिति । अथ प्रागुक्तेनोच्छासनाम्नैवोच्छ्रसनस्य सिद्धत्वाद् इहोच्छ्रासपर्याप्तिर्निर्विषयेति, नैवम् , सतीमप्युच्छासनामोदयेन जनितामुच्छ्सनलब्धिमात्मा शक्तिविशेषरूपामुच्छासपर्याप्तिमन्तरेण व्यापारयितुं न शक्नुयात् । यथा हि शरीरनामोदयेन गृहीता अप्यौदारिकादिशरीरपुद्गलाः शक्तिविशेषरूपां शरीरपर्याप्तिं विना शरीररूपतया परिणमयितुं न शक्यन्त इति शरीरनाम्नः पृथग् इष्यते शरीरपर्याप्तिः, एवमत्राप्युच्छासनाम्नः पृथगुच्छासपर्याप्तिरेष्टव्या, तुल्ययुक्तित्वादिति ॥ ४८॥
पत्तेय तणू पत्तेउदयेणं दंतअहिमाइ थिरं।
नाभुवरि सिराइ सुह, सुभगाओ सव्वजणइहो ॥४९॥ 'प्रत्येकोदयेन' प्रत्येकनामकर्मोदयवशाद् जन्तूनां प्रत्येकं तनुः' पृथक् पृथक् शरीरं भवति, यदुदयाद् एकैकस्य जन्तोरेकैकं शरीरमौदारिकं वैक्रियं वा भवति तत् प्रत्येकनामेत्यर्थः ४ । 'स्थिरं' स्थिरनामोदयेन दन्ताऽस्थ्यादि निश्चलं भवति, यदुदयात् शिरोऽस्थिग्रीवादीनामवयवानां स्थिरता भवति तत् स्थिरनामेत्यर्थः ५ । 'शुभं' शुभनामोदयात् नाभ्युपरि शिरआदिर्भवति, यदुदयाद् नाभेरुपर्यवयवाः शुभा भवन्ति तत् शुभनाम, शिरःप्रभृतिभिः स्पृष्टः परो हृष्यतीति तेषां शुभत्वम् ६ । 'सुभगात्' सुभगनामोदयेन सर्वजनेष्टो भवति,
१ वैक्रियपर्याप्तिः शरीरे आन्तमौहूर्तिकी शेषा एकसामयिक्यः। आहारे (पर्याप्तिः) एकसामयिकी शेषा आन्तौंहूर्तिक्य औदारिके ॥
For Private and Personal Use Only