________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा अस्थिराः-चपला भवन्ति तद् अस्थिरनाम ५। यदुदयाद् नामेरघः पादादीनामवयवानामशुभता भवति तद् अशुभनाम, पादादिना हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वम् । कामिनीव्यवहारेण व्यभिचार इति चेत् , नैवम् , तस्य मोहनिबन्धनत्वात् , वस्तुस्थितिश्चेह चिन्त्यत इति ६ । यदुदयवशाद् उपकारकृदपि जनस्याऽप्रियो भवति तद् दुर्भगनाम । उक्तं च
___उवगारकारगो वि हु, न रुच्चई दूभगो उ जस्सुदए । ७ इति । यदुदयात् खरभिन्नहीनखरो भवति तद् दुःखरनाम ८ । यदुदयवशाद् युक्तियुक्तमपि ब्रुवाणो नाऽऽदेयवचनो भवति न च लोकोऽभ्युत्थानादि तस्य करोति तद् अनादेयनाम ९ । यदुदयात् पूर्वप्रदर्शिते यशःकीर्ती न भवतस्तद् अयशःकीर्तिनाम १० इति ॥ ५० ॥ ___ व्याख्यातं द्विचत्वारिंशद्भेदं त्रिनवतिभेदं व्युत्तरशतभेदं सप्तषष्टि भेदं षष्ठं नाम । सम्प्रति द्विभेदं गोत्रकर्माभिधित्सुराह
गोयं दुहुचनीयं, कुलाल इव सुघडभुंभलाईयं ।
विग्धं दाणे लाभे, भोगुवभोगेसु विरिए य ॥५१॥ गोत्रं प्राग्वर्णितशब्दार्थ 'द्विधा' द्विभेदम् , कथम् ? इत्याह-'उच्चनीचं' उच्चं च नीचं च उच्चनीचम् , उच्चैर्गोत्रं नीचैर्गोत्रमित्यर्थः । एतच्च 'कुलाल इव' कुम्भकारतुल्यम् । शोभनो घटः सुघटः-पूर्णकलशः, भुम्भलं-मद्यस्थानम्, सुघटभुम्भले आदी यस्य तत्कृतोपकरणस्य तत् सुघटभुम्भलादि करोतीति शेषः । अयमत्र भावः-यथा हि कुलालः पृथिव्यास्तादृशं पूर्णकलशादिरूपं करोति यादृशं लोकात् कुसुमचन्दनाक्षतादिभिः पूजां लभते, स एव भुम्भलादि तादृशं विदधाति यादृशमप्रक्षिप्तमद्यमपि लोकाद् निन्दा लभते; तथा यदुदयाद् निर्धनः कुरूपो बुद्ध्यादिपरिहीणोऽपि पुरुषः सुकुलजन्ममात्रादेव लोकात् पूजां लभते तद् उच्चैर्गोत्रम् १; यदुदयात् पुनर्महाधनोऽप्रतिरूपरूपो बुद्ध्यादिसमन्वितोऽपि पुमान् विशिष्टकुलाsभावाद् लोकाद् निन्दां प्राप्नोति तद् नीचैर्गोत्रम् २ इति । उक्तं द्विविधं गोत्रकर्म ॥
अथ विघ्नकर्म पञ्चधा व्याख्यानयन्नाह—“विग्धं दाणे लाभे" इत्यादि। विशेषेण हन्यन्तेतदानादिलब्धयो विनाश्यन्तेऽनेनेति विघ्नम्-अन्तरायकर्म । तच्च विषयभेदात् पञ्चधेति दर्शयति-दीयत इति दानं तस्मिन् , लभ्यत इति लाभस्तसिन्, भुज्यते-सकृदुपभुज्यत इति मोगः पुष्पाहारादिः, उपेति-पुनःपुनर्भुज्यत इति उपभोगो भवनाऽऽसनाऽङ्गनादि । उक्तं च
सह भुजइ ति भोगो, सो पुण आहारपुप्फमाईसु । । उवभोगो उ पुणो पुण, उवभुज्जइ भवणवणियाई ॥ (बृ०क०वि० गा० १६५)
ततो भोगश्च उपभोगश्च भोगोपभोगौ तयोः, प्राकृतवशाच द्विर्वचनस्थाने बहुवचनं भवति, यदाहुः श्रीहेमचन्द्रसूरिपादाः स्वप्राकृतलक्षणे-"द्विवचनस्य बहुवचनम्" ( सि०८-३१३०) इति । विशेषेण ईर्यते-चेष्ट्यतेऽनेनेति वीर्यम् , यद्वा विविधम्-अनेकप्रकारमीरयति यत् प्राणिनं क्रियासु तद् वीर्य सामर्थ्य शक्तिरिति पर्यायास्तस्मिन् 'चः' समुच्चये, सर्वत्र विन
१ उपकारकारकोऽपि हि न रोचते दुर्भगस्तु यस्योदये ॥ २ °वनवसनाझ ग० ङ० ॥ ३ सकृभुज्यते इति भोगः स पुनराहारपुष्पादिषु । उपभोगस्तु पुनः पुनरुपभुज्यते भवनवनितादि ।
For Private and Personal Use Only