________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् .
तथा प्रशिथिलं नाम दोषो यदढमनिरायन्तं वा व गृपते, प्रलम्बो- यजिषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं लोलो यभूमौ करे वा प्रत्युपेक्ष्यमाणवनस्य लोलनममीषां वन्दः, एकामर्शनं एकामर्शा प्राग्मत् त्रीलिङ्गता, मध्ये गृहीत्वा ग्रहणदेशं याषदुभयतो वनस्य यदेककालं संघर्षणमाकर्षणम् , 'अणेगरूषधुणे'त्ति अनेकरूपा चासो सङ्ख्यात्रयातिक्रमणको युगपदनेकवस्त्रग्रहणतो वा धूमना च प्रकम्पनारिमका अनेकरूपधूनना, पठ्यते च 'अणेगरूषधूय' त्ति तत्र न धुतं कम्पनमन्यत्प्राग्बत् , तथा यत्करोति प्रमाणेप्रस्फोटादिसङ्ख्यालक्षणे प्रमादम्-अनषधानं यच्च शङ्किते - प्रमादत: तमाणं प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिनै कधिविसङ्ख्यात्मिकामुपगच्छति-उपयाति गणनोपगं यथाभवत्येयं गम्यमानत्वात्प्रस्फोटनादि कुर्यात, सम्भाबने लिङ्ग, सोऽपि दोषः, सर्वत्र पूर्वसूत्रादनुपर्त्य वर्जनक्रिया योजनीया, एवं सानन्तरोक्तदोषैरपिता सदोषा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्यर्थत उक्तम् ॥२७॥
साम्प्रतं त्वेनामेव भङ्गक निदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किश्चिद्विशेषतो वक्तुमाह-'अगृणाहरित'ति ऊना चासायतिरिक्ता ऊनातिरिक्ता न तथा अनूनातिरिक्ता प्रति लेखा, इह च न्यूनताधिक्ये स्फोटनाप्रमार्जने बेलां चाश्रित्य घाच्ये, 'अविषच्चास'त्ति विविधो व्यत्यासो-विपर्यासो यस्यां सा दिव्यत्यासा न तथा अधिव्यत्यासा- पुरुषोपधिविपर्यासरहिता कर्तव्येति शेषः, अन्न र विभिविशेषणपदैरष्टौ भङ्गाः सूचिता भवन्ति, एतेषु च कः शुद्धः को वाऽशुद्रः इत्याह-'प्रथमपदम्' इहैवोपदर्शिताचभङ्गरूपं 'प्रशस्तं' निर्दोपतया श्लाघ्यं शुद्धमिति यावत, शेषाणि तु प्रक्रमात्पदानि द्वितीयादि भङ्गात्मकान्यप्रशस्तानि, तेषु न्यूनतापन्यतमदोष
For Private And Personal Use Only