SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२८ श्रीसामाचारी समाश्रितं - श्रीसप्तपदी शास्त्रम् . राश्च जन्तवः तस्मात्तेषां रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोऽत्र भवदीयानुष्ठाने पुण्यमित्येवं नो बदेदिति ॥ १८ ॥ यद्येवं नास्ति पुण्यमिति ब्रूयात्, तदेतदपि न ब्रूयादित्याह येषां' जन्तूनां कृते 'तद्' अन्नपानादिक किल धर्मबुद्धया 'उपकल्पयन्ति तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति तन्निषेधे च यस्मात् 'तेषाम्' आहारपानार्थिनां तत् 'लाभान्तरायो' बिघ्नो भवेत्, तदभावेन तु ते पीडयेरन् तस्मात्कूपखननसत्रादिके कर्मणि नास्ति पुण्य मित्येतदपि नो वदेदिति ||१९|| एनमेवार्थे पुनरपि समासतः स्पष्टतरं विभणिषुराह ये केचन प्रपासनादिकं दानं बहूनां जन्तूनामुपकारी तिकृत्वा 'प्रशंसन्ति' श्लाघन्ते 'ते' परमार्था नभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण 'वर्ध' प्राणातिपातमिच्छन्ति, तद्दानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञा: 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेद' वर्तनोपायविघ्नं कुर्वन्तीति ||२०|| तदेवं राज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानाद्यथतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिधेयं तद्दर्शयितुमाह-यथस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्यानां सूक्ष्मवादराणां सर्वदा प्राणत्याग एव स्यात् प्रीणनमात्रं तु पुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायः स्यादित्यतो 'द्विधापि' अस्ति नास्ति वा पुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्ज भाषन्ते, किंतु पृष्टैः सद्भिर्मोनं समाश्रयणीयं निर्बन्धे त्वस्माकं द्विचत्वारिंशदोषवर्जित आहार : कल्पते, पवंविधविषये मुमुक्षूणामधिकार एव नास्तीति उक्तं च- " सत्यं वप्रेषु शीतं शशिकरधवलं घारिपीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणि " www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 1 4 For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy