________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२६ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शास्त्रम् .
परघादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवा. दमार्या आविर्भावयन्ति-'वय' मित्यादि, पुनः शब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानि सप्रतिषेधानि हन्तव्यादीनि याचन केवलमत्र-अस्मदीये बचनेनास्ति दोषः, अत्रापि-अधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषः-पापानुबन्धः, सावधारणत्यावाश्यस्य नास्त्येष दोषः, प्राण्युपघातप्रतिषेधाचार्यषचनमेतत् ,
श्री सूत्रकृताङ्गे सप्तमाध्ययने-"जातिं च बुढि च विणासयंते, बीयाइ अस्संजय आयदंडे । अहाहु से लोए अणज्जधम्मे, बीयाइ जे हिंसति आयसा ते ॥९॥"
(वृत्तिः-फिञ्च-'जातिम्' उत्पत्ति तथा अङ्करपत्रमूल स्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन बीजानि च तत्फलानि विनाशयन् हरितानि छिनत्तीति, 'असंयत:' गृहस्थ: प्रव्रजितो वा तत्कर्मकारी गृहस्थ एव, स च हरितच्छे. दविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति,अथशब्दो वाक्यालङ्कारे 'आहुः' एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति-यो हरितादिच्छे. दको निरनुकोशः 'सः ' अस्मिन् लोके 'अनार्यधर्मा' करकर्मकारी भवतीत्यर्थः, स च क पवम्भूतो यो धर्मापदेशे नात्मसुखार्थ वा बीजानि अस्य चोपलक्षणार्थत्वात् वनस्पतिकायं हिनस्ति स पापण्डिकलोकोऽन्यो वाऽनार्यधर्मा भव. तीति सम्बन्धः ॥ ९ ॥)
श्री सूत्रकृताङ्गे एकादशाध्ययने-"हणतं णाणुजाणेज्जा, आयगुत्ते जिइंदिए । ठाणाई संति सड्ढीणं, गामेसु नगरेसु
For Private And Personal Use Only