________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १२५
लब्धं दिव्यज्ञानेनास्माभिः, अस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन, च शब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिगुवादेः सकाशात , अस्मदगुरुशिष्यैर्वा तदन्तेवाप्तिभिर्धा, मतम्-अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा, विज्ञातं च तत्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण घा, स्थतो न परोपदेशदानेन, एतचोधिस्तिर्यक्षु दशस्वपि विक्षु सर्वत:- सर्वैः प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युपेक्षितं च पर्यालोचितं च, मनःप्रणिधाना. दिना अस्माभिरस्मत्तीर्थकरेण षा, किं तदित्याह-सर्व प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्ता हस्तव्या आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्या अपद्रापयितव्याः, 'अत्रापि' धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थ देवतोप याचितकतया वा प्राणिहननादौ ' दोषः' पापानुसन्ध इति, एवं शायन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा बा धर्मविरुद्धं परलोकविरुद्धं वादं भाषन्ते । अयं च जी शे. पमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति, आह च-आरा याताः सर्वहेयधम्मभ्यः इत्यार्यास्तद्विपर्यासादनार्याः-फरक
र्माणम्तेषां प्राण्युपधातकारोदं वचनं, ये तु तथा भूता न ते किम्भूतं प्रज्ञापयन्तीत्याह-तत्थ' इत्यादि. 'तो' ति वाक्योपन्यासाथै निर्धारणे घा, ये ते आर्या देशभाषा चा रित्रार्यास्त पवमधादिषुः, यथा यत्तदनन्तरोक्तं दुर्दृष्टमेतद् , दुष्टं दृष्टं दुर्दृष्टं 'भे' युस्माभिर्युष्मत्तीर्थकरेण षा, एवं याषद्दुष्प्रत्युपेक्षितमिति । तदेवं दुर्दृष्टादिकं प्रतिपाथ दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाधिकरणमाह-'जंण' मित्यादि, णमिति वाक्यालङ्कारे, यदेतद्रक्ष्यमाणं यूयमेषमाचध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्र प्राण्युपमर्दानुष्ठाने दोषः- पापानुबन्ध इति, तदेवं
For Private And Personal Use Only