________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२२
श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् .
सद्विवेकविकलाः, तथा 'अकोविदा' अपण्डिताः- सच्छाला. वबोधरहिता इति ॥१९॥ अथे' त्यानन्तर्य, अज्ञानधादिमतानन्तरमिदमन्यत् 'पुरा' पूर्वम् आख्यातं' कथितं, किं पुनस्तदित्याह-'क्रियावादिदर्शनं' क्रिये व-चैत्यकर्मादिका प्रधानं मोक्षामित्येवं बदितुं शीलं येषां ते क्रियावादिनस्तेषां दर्शनम् आगमः क्रियावादिदर्शनं, किंभूतास्ते क्रियावादिन इत्याह कर्मणि-ज्ञानाधरणादिके चिन्ता-पर्यालोचनं कर्मचि. न्ता तस्याः प्रणष्टा-अपगताः कर्मचिन्तामणष्टाः, यतस्ते अधि. ज्ञानाद्युपचितं चतुर्विधं कर्मबन्ध नेच्छन्ति अत: कर्मचिन्ताप्रणष्टाः, तेषां चेदं दर्शनं 'दुःखस्कन्धस्य' असातोदयपरम्पराया विवर्धनं भवति, क्वचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेष कुर्वन्ति नोच्छेदमिति ॥२४॥ अस्य चानन्तरसूत्रेण सहायं संबन्धस्तद्यथा, अनन्तरसूत्रेऽभिहितं-'तोर्थिका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति ? यत एते जिताः परीषहोपसर्गः, परम्परसूत्रसंबन्धस्त्वयम् आदाविदमभिहितं 'बुध्येत त्रोट. येञ्च' ततश्चैतदपि बुध्येत-यथैते पञ्चभूतादिवादिनो गोशा. लकमतानुसारिणध जिताः परोषहोपसर्गः कामक्रोधलोभमानमोहमदाख्येनारिषदर्गेण चेति, एषमन्यैरपि सूत्रैः संबन्ध उत्प्रेक्ष्यः । तदेवं कृतसंबन्धस्यास्य शूत्रस्येदानी व्याख्या प्रतन्यते-'पत' इति पञ्चभूतकात्मतजोबतच्छरीरादिशादिनः कृतपादिनच गोशालकमतानुसारिणस्पैराशिकाच 'जिता' अभिभूता रागद्वेषादिभिः शब्दादिविषयश्च तथा प्रबलमहा. मोहोत्थाज्ञानेन च 'भो' इति विनेयामन्त्रणम् एवं त्वं गृहाण यथैते तीर्थका असम्यगुपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवितुमर्हन्ति न कश्चित् पातुं समर्था इत्यर्थः, किमित्येवं ?, यतस्ते बाला इव बाला:, यथा शिशवः सदसद्विवेकवैक
For Private And Personal Use Only