________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १२३
ल्याधाकिश्चनकारिणो भाषिणच, तथैतेऽपि स्वयमज्ञाः सन्तः परानपि मोहयन्ति, परम्भूता अपि च सन्तः पण्डितमानिन इति, कचित्पाठो 'जत्थ बालेऽवसीयइति यत्र' अक्षाने 'बाल!' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्ते न कस्यचित् त्राणायेति । यश्च तैर्विरूपमाचरितं तदुत्तरार्द्धन दर्शयति-हित्वा' त्यक्त्वा, णमिति पाक्यालङ्कारे, पूर्वसंयोगो धनधान्यस्वजनादिभिः संयोगस्तं त्यक्त्वा किल अयं निःसङ्गा प्रजिता इत्युत्थाय पुनः सिता-बद्धाः परिग्रहारम्भेष्वासतास्ते गृहस्थाः तेषां कृत्यं-करणीयं पचनपाचनकण्डनपेष. णादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा, यदिवा-'सिया' इति आर्षत्वाद्वहुवचनेन व्याख्यायते स्युः' भवेयुः कृत्य-कर्तव्यं सावधानुष्ठानं तत्प्रधानाः कृत्या-गृहस्थास्तेषामुपदेश:-संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रव्रजिता अपि सन्तः कर्तव्य गृहस्थेभ्यो न भिधन्ते, गृहस्था इव तेऽपि सर्वावस्थाः पश्चसूनाव्यापारोपेता इत्यर्थ: ॥१॥ अपि च-सत्या असत्या सत्यामृषा असत्यामृषेत्येवंरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा, सा च किश्चिन्मृषा किश्चित्सत्या इत्येवंरूपा, तथथादशदारका अस्मिन्नगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्ख्याया व्यभिचारात्सत्यामृषात्वमिति, यां
रूपां भाषामुदित्वा अनु-पश्चाद्भाषणाजन्मान्तरे वा तज्जनितेन दोषेण 'तप्यते' पीड्यते क्लेशभाग्भवति, यदिवाअनुतप्यते किं ममैवम्भूतेन भाषितेनेत्येवं पश्चात्तापं विधत्ते, ततश्चेदमुक्तं भवति-मिश्रापि भाषा दोषाय किं पुनरसत्या द्वितीया भाषा समस्तार्थविसंवादिनी ?, तथा प्रथमापि भाषा सत्या या प्राण्युपतापेन दोषानुषङ्गिणी सा न वाच्या, चतु.
For Private And Personal Use Only