________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११६
श्रीसामाचारी समाश्रितं - श्रीसतपदी शाखम् .
शया धनविमोहितमानसानां, कालः प्रयाति मरणावधिरेष पुंसाम ||१|| एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । इत्याद्याशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ २॥ " इत्यादि । तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह तदिति सर्व नाम प्रकान्तपरामर्श, 'तत्' शखपरिक्षोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम्, इह या यदुक्तम् अप्रशस्त गुणमूलस्थानं - विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थानक्षणपरिज्ञान श्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाथये च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्यादावर्त्ती, ज्ञातद्देयोपादेयः सन् किं कुर्यादित्याह - नेवर्य' इत्यादि, नैव स्वयम्' आत्मना पतेः आत्मबलाधानादिकैः कार्यैः कर्तव्यैः समुपस्थितः सद्भिः 'दण्डं' सस्त्रोपघातं समारभेत्, नाप्यन्यम् - अपरमेभिः कार्ये - हिंसावृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् । एष चोपदेश स्तीर्थकृद्भिरभिदित इत्येतत् सुधर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति'एस' इत्यादि, 'एष' इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरण त्रिकेण दण्ड समादान परिहारलक्षणो बा आयै: ' आराधाताः सर्वदेयधम्र्मेभ्य इत्यार्याः - संसारार्णवतटवर्त्तिनः क्षीणघातिकमीशाः संसारोदर विवरवर्तिभाषविदः तीर्थकृतस्तै: 'प्रकर्षेण' सदेवमनुजायां पर्षदि सर्वस्वभावानुगामिन्या बाचा यौगपद्याशेषसंशीतिच्छेतूच्या प्रकर्षेण वेदितः कथितः प्रतिपादित इतियावत् )
"
For Private And Personal Use Only
ܕܩܚܤ܂
श्री आचारांगे षष्ठाध्ययने पंचमोद्देशके-“ ओए समियदंसणे, दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीर्ण आइक्खे, विभए किट्टे वेयवी, से उट्ठिएस वा अणुट्टिएस वा