________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ११५
च-“तिथिपर्बोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥" एतदुक्तं भवति. तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्य इति, पवं कृपणश्रमणार्थमपि पाच्यमिति, एवं पूर्वोक्तैः 'विरूपरूपैः' नानाप्रकारैः पिण्डदानादिभिः कार्य: 'दण्डसमादान' मिति दण्ड. यन्ते-व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानंग्रहणं समादानं, तदात्मबलादिकं मम नाभषिष्यत् यद्यहमेतन्नाकरिष्यमित्वेवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिह भवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थमजानानैर्दण्ड. समादानं क्रियत इति दर्शयति-पायमोक्खो'त्ति इत्यादि, पातयति पासयतीति षा पापं तस्मान्मोक्षः, 'इति' हेतौ, यस्मात्स मम भविष्यतीति मन्यमानः दण्डसमादानाय प्रवर्तत इति, तथाहि-हुतभुजि षड्जीवोपघातकारिणि शने नानाविधोपायप्राण्युपघातात्तपापविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युग्राहितमतयो जुहति, तथा पितृ पिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति, तद्भक्तशेषानुज्ञातं स्वतोऽपि भुनते, तदेवं नानाविधैरुपायरज्ञानोपहतबुद्धयः पापमोक्षार्थ दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अनेकभषशतकोटीदुम्र्मोचमघमेषोपाददत इति । किञ्च-'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् , अथवा आशंसनम् आशंसा-अप्राप्तप्रापणाभिलाषस्तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत परुत्परारि वा प्रेत्य बोपस्थास्यते इत्याशंसया क्रियासु प्रवर्तते, राजानं षाऽर्थाशाविमोहितमना अबलगति, उक्तं च " आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल धयं सततं सुखानि । इत्या
For Private And Personal Use Only