________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ११३ इह च भाषवसुभिर्वसुमत्त्वमङ्गी क्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानि-यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समग्वागतानि प्रज्ञानानि यस्यात्मन: स सर्वसमन्वागतप्रज्ञान:-- सर्वाषधोधविशेषानुगतः सर्वेन्द्रियज्ञानः पटुभिर्यथावस्थित विषयपाहिभिरविपरीतैरनुगत इतियावत्, तेन सर्वसमन्यागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स सर्वसमन्वागतप्रज्ञान आत्मा, भगवत. चनप्रामाण्यादेवमेतत द्रव्यपर्याय जातं नान्यथेति सामान्यधि शेषपरिच्छेदान्निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापपरिज्ञानान्नरकतिर्यगनरामरमोक्षसुखम्वरूपपरिक्षानाच्चापरितु. ध्यन्ननैकान्तिकादिगुणयुक्त संसारसुखे मोक्षानुष्ठानमाविष्कु. उर्धन सर्वसमन्धागतप्रज्ञान आत्माऽभिधीयते,तेनैवंविधेनात्मना “श्रकरणीयम्' अकर्तव्य मिह परलोकविरुद्धवाद कार्यमिति मत्या नान्धेषयेत् , न तदुपादानाय यत्नं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति ?, उच्यते, ‘पापं कर्म' अधःपतनकारित्वात्पापं, क्रियत इति कर्म, तञ्चाष्टादश विधं प्राणातिपातमृषावादादत्तादानमैथुनपरियहक्रोधमानमायालोभप्रेमद्वेषकलहाभ्याख्यानपैशून्यपरपरिषादरत्यरतिमायामृषा. मिथ्यादर्शनशस्याख्यमिति, एवमेतत् पापमष्टादशभेदं ना. धेषयेत्-न कुर्यात् स्वयं, न चान्यं कारयेत, न कुर्वाणमन्य. मनुमोदेत । एतदेवाह-तं परिणाय मेहावी ' त्यादि 'तत' पापमष्टादशप्रकारं परिः-समन्तात् ज्ञात्वा मेधावी-मर्यादापान नैष स्वयं षड्जीवनिकायशवं स्थकायपरकायादिभेदं समारभेत नैवान्य: समारम्भयेत् न चान्यान् समारभमाणान् समनुनानीयात, एवं यस्यैते सुपरीक्ष्यकारिणः षड्नीय निकायशस्त्रसमारम्भाः तविषयाः पापकर्मविशेषाः परिक्षाता
For Private And Personal Use Only