________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११२ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् .
इति, आह 'जे आयारे ण रमंति' ये ह्यविदित परमार्था ज्ञानदर्शनचरणतपोवीर्याख्ये पश्चप्रकाराचारे 'न रमन्ते' न धृतिं कुर्वन्ति, तदधृत्या च पृथिव्याधारम्भिण:, तान् कर्मभिरुपादीयमानान् जानीहि, के पुनराचारे न रमन्ते ?, शाक्यदिगम्बरपावस्थादयः, किमिति ?, यत आह 'आरं. भमाणा विणयं वयंति' आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं संयममेव भाषन्ते, कर्माष्टक-त्रिनयनाबिनयः संयमः, शाक्यादयो हि वयमपि पिनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे घा तदाश्रितारम्भित्वात् ज्ञानाधाचारषिकलत्वेन नष्टशीला इति । किं पुनः कारणं ? येनैवं ते दुष्टशीला अपि विनय. व्यवस्थितमात्मानं भाषन्ते इत्यत आह-'छन्दोषणीया अज्झोबवण्णा' छन्दः-स्वाभिप्राय: इच्छामात्रमनालोचितपूर्धापरं विषयाभिलाषी वा, तेन छन्दसा उपनीताः-प्रापिता आर. म्भमार्गमधिनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्ना तचित्तास्तदात्मकाः अध्युपपन्नाः विषयपरिभोगायत्तजीविता इत्यर्थः, य एवं विषयाशाकर्षितचेतसस्ते किं कुर्युरित्याह'आरंभसत्ता पकरंदि संगं' आरम्भणमारम्भः रसायद्यानुष्ठानं तस्मिन् सक्ताः-तत्पराः प्रकर्षण कुर्वन्ति, सज्यन्ते येन संसारे जीवाः ससङ्गः-अष्टविधं कर्मविषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाञ्च पुनरपि संसारः, आज जयीभावरूपः, एवं प्रकारमपायमधाप्नोति षड्जीवनिकायघातकारोति ॥ अथ यो निवृत्तस्तदारम्भात् स किंषिशिष्टो भवतीत्यत आह'से' इति पृथिव्युद्देशकाभिहित निवृत्तिगुणभाक् षड्जीवनिकायहनन निवृत्तो 'वसुमान' वसूनि द्रव्यभावभेदाद द्विधा, द्रव्य. वसूनि मरकतेन्द्रनीलवनादीनि भाववसूनि-सम्यक्त्यादीनि तानि यस्य यस्मिन् वा सन्ति स वसुमान , द्रव्ययानित्यर्थः,
For Private And Personal Use Only