________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
९४ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शास्त्रम् ,
रात्रिः, सर्वसिद्धा तुच्छा तिथिश्चतुर्दशी रात्रिः, शुभनामा पूर्णातिथिः पश्चदशी रात्रिरिति, यथा नन्दादिपञ्चतिथीनां त्रिरावृत्त्या पंचदश (दिन) तिथयो भवन्ति तथोग्रवतीप्रभृतीनां त्रिरावृत्या पंचदश रात्रितिथयो भवन्तीति)
इति वचनात् ।। एवं सरपन्नत्ती मूलसूत्रेपि-दशमस्य प्राभृतस्य चतुर्दश पंचदश प्राभृत प्राभृतयोः सदृशत्वान्न लिख्यते । अत्रवृत्तिः एकैकस्य पक्षस्य पश्चदश पञ्चदश रात्रयः प्रज्ञप्ताः, तद्यथा-प्रतिपत् पतिपत्सम्बन्धिनी प्रथमा रात्रिः द्वितीयदिवप्तसम्बन्धिनी द्वितीया रात्रिः, एवं पञ्चदशदिवससम्बन्धिनी पञ्चदशी रात्रिः, इतिवचनात् । यो दिवसः सा चैव रात्रिः दिवसानुषंगिकीरात्रिरित्यर्थः ॥ श्रीकल्पसूत्रे "उवसमे दिवसे देवागंदा सा रयणी" इतिवचनात् । वृत्तिः-ननु दिवसेभ्यस्तिथीनां कः प्रतिविशेषो येनैताः पृथक कथ्यते उच्यते इह सूर्यनिष्पादिता अहोरात्राश्चंद्रनिष्पादितास्तिथयः, तथा पुनः अयं च पूर्वाचार्यपरंपरायात उपनिषदुपदेशः। अहोरात्रस्य द्वापष्ठिभागपविभक्तस्य ये एकषष्ठिभागस्तावत् प्रमाणा तिथि:, अहोरात्रस्त्रिशन्मुहूर्तप्रमाणः सुमतीतः ॥ औदयिकतिथिविचारः ॥ श्रीभगवती सूत्रे १२ शतके ६ उद्देसके-“से केणटेणं भंते ! एवं वुच्चइ-सूरे आइने सूरे० २१, गोयमा ! सूरादियाणं समयाइ वा आवलियाइ वा जाव उस्सप्पिणीइ वा अवसप्पिणीइ वा से तेणटेणं जाव आइच्चे०२।" वृत्तिः-अथादित्यशब्दस्यान्वर्थाभिधानायाह-'से केण' मित्यादि, 'सराईय' तिसरः आदिः
For Private And Personal Use Only