________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
शास्त्रमुक्तावळी ।
परस्परमविरुद्धम् । ययाचा न्वयव्यतिरेकि धूमादिहेतौ सपक्षे महानसादी सत्त्वं विपक्षे महाह्रदादा वसत्त्वंच परस्पर मविरुद्धम् । तथा स्तित्व नास्तित्वयो रपि । तयो विरोध श्चानुपदमेव स्पष्टं परिहरिष्यते ॥
ननु · अनेकान्तवादे विरोधादयो ऽष्टदोषा सम्भवन्ति । तथाहि . एकत्रार्थे विधिप्रतिषेधरूपा वस्तित्व नास्तित्वधर्मी नसम्भवतः, शीतोष्णयोरिव भावाभावयोः परस्परं विरोधात् । अस्तित्वंहि भावरूपं, विधिमुखप्रत्ययविषयत्वात् । नास्तित्वंच प्रतिषेधरूपं , नझुल्लिखितप्रतीतिविषयत्वात् । यत्रास्तित्वं तत्र नास्तित्वस्य विरोधः , यत्रच नास्तित्वं तत्रास्तित्वस्य विरोधः , इति विरोधः ॥ अस्तित्वस्या धिकरण मन्य नास्तित्वस्या धि. करण मन्य दि त्यस्तित्व नास्तित्वयो वैयधिकरण्यम् , । तच्च विभिन्नाधिकरणवृत्तित्वम् ॥ येन रूपेणा स्तित्वं येनच रूपेण ना. स्तित्वं ताशरूपयो गपि प्रत्येक मस्तित्वनास्तित्वात्मकन्वं वक्त व्यम् , तच्च स्वरूपपररूपाभ्यां , तयोरपि प्रत्येक मस्तित्वनास्तित्वात्मकत्वं स्वरूपपररूपाभ्या मित्यनवस्था ,। अप्रामाणिकपदार्थ परम्परापरिकल्पना विश्रान्त्यभाव श्चानवस्थे त्युच्यते ॥ येन रूपेण सत्त्वं तेन रूपेणा सत्त्वस्यापि प्रसंगः , येन रूपेण चा. सत्त्वं तेन रूपेण सत्त्वस्यापि प्रसंगः, इति संकरः । " सर्वषां युगपत्प्राप्ति स्संकरः । ” इत्यभिधानात् ॥ येन रूपेणसत्त्वं तेनरूपेणा सत्त्वमेव स्या नतु सत्त्वं , येन रूपेणचासत्त्वं तेन सत्त्वमेव स्या न विसत्त्वं , इति व्यतिकरः परस्परविषयगमनं
For Private and Personal Use Only