________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्तभंगी तरंगिणी ।
४३
प्रसक्तिरेव '
तो नवेति । प्रकृतेचा नेकान्तवादे तादृश छलद्धक्षणस्य नास्ति, अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्या र्थान्तर परिकल्पनाभावात् ॥
,
अथ संशयहेतु रनेकान्तवादः एकस्मिन्वस्तुनि विरुद्धाना मस्तित्व नास्तित्वादि धर्माणा मसम्भवात ; एकवस्तुविशेष्यकविरुद्ध नानाधर्मत्रकारक ज्ञानंहि संशयः । यथा स्थाणुवी नवे त्याकारकज्ञानं एकधर्मिविशेष्यक स्थाणुत्व तद्भावप्रकारक ज्ञानत्वात्संशयः । तथाचा स्तित्व नास्तित्वादिरूप विरुद्ध नानाधर्मप्रकार क घटादिरूपैक वस्तुविशेष्यक ज्ञानजनकत्वा त्संशयहेतु रनेकान्त वादः | इतिचेन्न ; विशेषलक्षणोपलब्धेः । संशयोहि सा मान्यप्रत्यक्षाद्विशेषाप्रत्यक्षा द्विशेषस्मृतेश्व जायते । यथा स्थाणु पुरुषोचिते देशे नातिप्रकाशा न्धकारकलुषायां वेळाया मूर्ध्व मात्रं सामान्यं पश्यतः वक कोटर पक्षिनीडादीन् स्थाणु गला विशेषा न्वख संयमन शिरः कण्डूयन शिखा बन्धनादीन्पुरुषगतां चानुपलभमानस्य तेषां च स्मरतः पुरुष स्यायं स्था गुर्वा पुरुषोवेति संशय उपपद्यते 1 अनेकान्त वादे च विशेषोपल-for cafada स्वरूप पररूपादि विशेषाणां प्रत्यर्थ मुपलम्भात ।
तस्माद्विशेषेोपलब्धे रनेकान्तवादी न संशयहेतुः ।
भथैवमपि संशयदुर्वार:, तथाहि घटादावस्तित्वादि धर्माणां साधकाः प्रतिनियता हेतव स्लन्तिवा नवा ? नचे द्विप्रतिपन्नं प्रति प्रतिपादनासम्भवः । सन्तिचे देकत्र वस्तुनि परस्परांवरुद्धास्ति त्व नास्तित्त्वादिसाधक हेतुसद्भावा त्संशयो दुर्वारः । इतिचेन्न अस्तित्वनास्तित्वयो रवच्छेदकभेदेनाप्यमाणयो विरोधाभावात । यथा एकस्यैव देवदत्तस्यै कांपेक्षया पितृत्व मन्यापेक्षया पुत्रत्वंच
,
,
Acharya Shri Kailassagarsuri Gyanmandir
-
For Private and Personal Use Only
-