________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
शास्त्रमुक्तावळी ।
. भेदाभेद विवक्षाया मसाधारणहेतुवत् ॥” इति ।
यथा-हेतुः पक्षधर्मवादिभेद विवक्षाया मनेकः, हेतुवनकश्च । तथा सर्व सत्त्वादिभि रेकं जीवद्रव्यादिभेदेना नेकमिति तदर्थः । प्र पंचित श्वाय मर्थो देवागमालंकार इति नेहो च्यते ।
अत्रा प्यनेक पदस्यैक भिन्नार्थकतया एकस्मिन् घटादा वेकभेदः कथं वर्तत इतिचोद्ये, पर्यायावच्छेदेन वर्तते- यथा वृक्षे मूलावच्छेदेन संयोगिभेद इतिः, पूर्वव परिहारो बोध्यः। .. एवं अयं स्याजीवः स्यादजीव इति मूलभंगद्वयम् । तत्रोपयो गात्मनाजीवः, प्रमेयत्वाद्यात्मना जीव इति तदर्थः । तदुक्तं भट्टाकळंकदेवः -
“ प्रमेयत्वादिभि धमै रचिदात्मा चिदात्मकः ।
ज्ञानदर्शनत स्तस्मा चेतनाऽचेतनात्मकः ॥” इति । अजीवत्वंच प्रकृते जीववृत्तिप्रमेयत्वादि धर्मवत्वम् , जीवत्खंच ज्ञानदर्शनादिमत्त्व मिति द्रष्टव्यम् । - नन्वय मनेकान्तवाद श्छलमात्रमेव , तदेवास्ति तदेव नास्ति, तदेव नित्यं तदेवानित्यमिति प्ररूपणारूपत्वा दनेकान्त वादस्य । इति चेन्न; -- छललक्षणाभावात । अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्या र्थान्तरं परिकल्प्य दूषणाभिधानं छलमिति छलसामान्य लक्षणम् ! यथा नवकम्बळोयं देवदत्तइति वाक्यस्य नूतनाभिप्रायेण प्रयुक्तस्या थान्तर माशंक्य कश्चिद्दषयति , नास्य नवकम्बळा स्सन्ति दरिद्रत्वात ; नस्य द्विकम्बळवश्वमपि सम्भाव्यते ; कु
For Private and Personal Use Only