________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी।
" नहि वयं सदृशपरिणाम मनेकव्यक्तिव्यापिनं युगप दुपगच्छामो ऽन्यत्रोपचारात् " इति ।
सूवितंच माणिक्यनन्दिस्वामिभिः -
“ सदृशपरिणाम स्तिर्यक् खण्डमुण्डादिषु गोत्ववत् ” इति । विवृतंचैत मार्ताण्डे - ___“ सदृशपरिणामात्मक मनेकं तिर्य सामान्यं " इति ।
तस्मा त्सत्त्वस्यापि तिर्यक्सामान्यरूपस्य प्रतिव्याक्ति भिन्नत्वात् कथं सर्वस्य वस्तुन स्सत्त्वेन रूपे गैक्यम् ? इतिचेत् ;- अत्रब्रमः । सतासामान्य मेका नेकात्मकमेव सिद्धान्ते स्वीकृतम् । सत्त्वंहि व्य - त्यात्मनाऽनेकमपि स्वात्मनैकंभवति । पूर्वोदाहसपूर्वाचार्य वचनानां च सर्वधैक्य निराकरणपरत्वात् । अन्यथा उत्तासामान्यस्य सर्वधा नेकत्वे पृथक्त्वैकान्तपक्षएवा दृतस्यात । तथाच “ पृथक्त्वैकान्त प. क्षेपि " इत्यादि स्वामिसमन्तभद्राचार्यवचनं तद्व्याख्यानभूत मकळं कादिवचनंच विरुद्धयते । अनेक व्यक्यनुगतस्यै क धर्मस्यानंगी. कारे सादृश्यमेव दुर्वचनम् , यत स्तद्भिवत्वेसति तद्गत भूयो ध व. त्वम् सादृश्यम् । यथा - चन्द्रभिन्नत्वेसति चन्द्रगतालादकरत्यादि मुखे चन्द्रसादृश्यम् , एवं घटयोरपि परस्परसाययं घटत्वरूपैकधर्म मादायैवोपपद्यते । अन्यथा साधारणधर्मा साधारणधर्म व्यवस्थैव न घटते । अनेकव्यक्ति वृत्तित्वमेव हि साधारणत्वम् । तस्मा सत्त्वादिना सर्वस्यैक्यम् जीवादिद्रव्यभेदेना नेकत्वम् चोपपत्रम् । तदिदमाहुः स्वामिसमन्तभद्राचार्याः
“ सरसामान्यातु सर्वैक्यं पृधगद्रव्यादिभेदतः।
For Private and Personal Use Only