________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी ।
ननु- स्यानित्योपटइत्यत्र स्याच्छन्दः कथञ्चिदर्थकः, अवच्छिन्न. स्वं संसर्गः, द्रव्यरूपावच्छिन्न नित्यत्ववान् घट इसिबोधश्च प्रथमवाक्यस्य युक्तः । द्वितीयवाक्येचा नित्यपदस्य नित्यभेदोऽर्थः, एवंच पर्यायरूपावच्छिन्न नित्यभेदवान् घटइति बोधः प्राप्नोति । सचायुक्तः । द्रध्यरूपेण नित्ये घटे नित्यभेदस्य बाधितत्वात् ; भेदस्य व्याप्यवृत्तित्वात् । इति चेदुच्यते :- मूले वृक्ष संयोगीने त्यबाधित प्रतीत्या भेदस्या प्यव्याप्यवृत्तित्व मंगीक्रियत एव । भव्याप्यवृत्तित्वंच प्रकृते प्रतियोगिवृत्तित्वम् । संयोगिभेदस्य प्रतियोगी संयोगवान् वृक्षः, तवृत्तित्वं संयोगिभेदस्या क्षतम् । वृक्षे मूलावच्छेदेन संयोगिभेदस्य सत्त्वात् । तथाच घटेपि पर्यायावच्छेदेन नित्यभेदो वर्तत इति पर्यायरूपावच्छिन्न नित्यभेदवान् घट इति बोधे न कापि क्षतिरिति बोध्यम् । . . एकत्वानेकत्व सप्तभंगी यथा - स्या देको घटः , स्या दने को घटइति मूलभंगद्धयम् । द्रव्यरूपेणैको घटः , स्थासकोशकु. सूलादिषु मृव्यस्यैकस्या नुगतत्वात् , तस्योलता सामान्यरूपस्वात् । पर्यायरूपेणा नेको घटः, रूपरसाधनेकपर्यायात्मकत्वात् घटस्य । . नन्वेवमपि सर्व वस्तु स्था देकं स्या दनेकमिति कथं संग. च्छते ? सर्वस्य वस्तुनः केनापि रूपेणे क्याभावात् । नच - सत्त्वादिरूपेण सर्वस्यैक्यं सम्भवतीति वाच्यम् ; सत्वस्यापि सकलवस्तुव्यापिन एकस्य सिद्धान्त विरुद्धत्वात । सदृशपरिणामस्यैकैकव्यक्तिगतस्य ततद्वयक्त्यात्मकस्य प्रतिव्यक्ति भिन्नस्यैव सिद्धान्त सिद्वत्वात् । तदुक्तम् - " उपयोगोलक्षणम्" इति सूत्रे तत्वार्थश्लोकवाति के -
For Private and Personal Use Only