________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। सम्य गेकान्त स्ताव प्रमाणविषयीभूता नेक धर्मात्मक वस्तुनिष्ठे कधभगोचरो धर्मान्तराप्रतिषेधकः । मिथ्यकान्त स्त्वेकधर्ममात्रावधार णेना न्याशेषधर्मनिराकरणप्रवणः । एव मेकत्र वस्तु न्यस्तित्व नास्तित्वादि नानाधर्मनिरूपणप्रवणः प्रत्यक्षानुमानागमाविरुद्ध स्सभ्य गनेकान्तः । प्रत्यक्षादिविरुद्धा नेक धर्मपरिकल्पनं मिथ्याने कान्तः । इति । तत्र सभ्यगेकान्तो नयः, मिथ्यकान्तो नया भासः । सम्य गनेकान्तः प्रमाणं ; मिथ्यानेकान्तः प्रमाणाभा सः । इति व्यपदिश्यते ।
तथाच- सम्यगेकान्त सम्यगनेकान्ता वाश्रित्य प्रमाण नयार्पणाभेदात , स्यादेकान्तः, स्यादनेकान्तः, स्यादुभयः, स्यादवक्तव्यः, स्या देकान्तश्चावक्तव्यश्च, स्यादनेकान्तश्चावक्तव्यश्च, स्यादेकान्तोनेकान्तश्चा घक्तव्य श्चेति सप्तभंगी योज्या । तत्र नयार्पणा देकान्तो भवति , एकधर्मगोचरत्वा वयस्य । प्रमाणा दनेकान्तोभवति , अशेषधर्मनिश्चयात्मकत्वा प्रमाणस्य । य धनेकान्तो ऽनेकान्तएव न त्वेकान्तइतिमतम् । सदा - एकान्ताभावे तत्समूहात्मकस्या नेकान्तस्या प्यभाव प्रसंगः, शा. खाद्यभावे वृक्षाद्यभाववत । इत्येवं मूलभंगद्वयोसिद्ध उत्तरेच भंगा. एवमेव योजयितव्याः ॥
इयंच सप्तभंगी नित्यत्वा नित्यत्वैकत्वानेकत्वादि धर्मेष्वपि नि. रूपयितव्या । यथा स्यानित्योघटः, स्यादनित्योघट इतिमूलभंगद्ध यं, घटस्य द्रव्यरूपेण नित्यत्वा पर्यायरूपेणा नित्यत्वात् । तदुक्तम् ।
" समुदेति विलयमृच्छति भावोनियमेन पर्ययनयेन । नोदेति नोविनश्यति द्रव्यनयालिङ्गितोनित्यम् ॥” इति ।
For Private and Personal Use Only