________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी । . सथा व्यस्तं पर्यायं समस्तौ द्रव्यपर्यायो चाश्रित्य स्या नास्ति चावक्तव्यएव घट इति षष्ठः । तल्लक्षणंच घटादिरूपैक धर्मिविशेष्यक नास्तित्वविशिष्टा वक्तव्यत्व प्रकारक बोधजनक वाक्यत्वम् ।
एवम् व्यस्तो क्रमर्पितौ समस्तौ सहार्पितौच द्रव्यपर्याया वाश्रित्य स्या दस्ति नास्ति चावक्तव्यएव घट इति सप्तमभंगः । घटादिरूपैकवस्तुविशेष्यक सत्त्वासत्त्वविशिष्टावक्तव्यत्व प्रकारक बोधजनक वाक्यत्वं तल्लक्षणम् । इति संक्षेपः ॥
भत्र - द्रव्यमेव तत्त्वं , अतस्स्यादस्तीति भंग एकएवेति सांख्य मत मयुक्तम् ; - पर्यायस्यापि प्रतीतिसिद्धत्वात । तथा - पर्यायएव सत्वं, अत स्स्या नास्तीति. भंगएवेति सौगतमतमपि युक्तिदुर्गतम् ; द्रव्यस्यापि प्रतीतिसिद्धत्वात् । एव मवक्तव्यमेव वस्तुतत्वमि त्यव क्तव्यत्वैकान्तोपि स्ववचनपराहतः , सदा मौनव्रतिकोह मितिवत् । एवमेवा न्येषा मेकान्तानां प्रतीतिपराहतत्वा दनेकान्तवादएघा वतिष्ठते ।
ननुच - अनेकान्तेपि विधिप्रतिषेधरूपा सप्तभंगी प्रवर्ततेवा नवा ? यदि प्रवर्तते - तदाऽ नेकान्तस्य निषेधकल्पनाया मेकान्तएव प्राप्तइति तत्पक्षोक्त दोषानुषंगः । अनवस्थाच । तादृशैकान्तस्या प्य परानेकान्त कल्पन या विधिप्रतिषेधयो वक्तव्यत्वात् । यदि सा न प्रवर्तते- तदा सर्व वस्तुजातं सप्तभंगी संवलित मिति सिद्धान्तव्या घातः। इति चन्न , - प्रमाणनयार्पणाभेदा तत्रापि तदुपपतेः । तथाहि - एकान्तो द्विविधः - सम्य गेकान्तो मिथ्र्यकान्त इति । अनेकान्तोपि द्विविधः , सम्य गनेकान्तो मिथ्यानेकान्त इति । तत्र
For Private and Personal Use Only