________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सतभंगी तरंगिणी । जात्यवच्छिन्नं द्रव्यं बोधयति । ततो लिंग संख्यां चेति शाब्दबोधः क्रमे गैव जायते। ततुक्तम्
" स्वार्थ मभिधायशब्दो निरपेक्षो द्रव्य माह समवेतम् । समवेतस्यतुवचने लिंगसख्यां विभक्तियुक्तस्सन् ।”
इति । एवं प्रधानभावेन वृक्षत्वावच्छिन्नस्य प्रतीति र्गुणभावेन बहुत्वसंख्याया इति न कश्चिदोषः ।
अथैकस्य पदस्य वाक्यस्यवा प्रधानभावेना नेक धर्मावच्छिन्न वस्तु बोधकत्वानंगीकारे प्रधानभावना शेषधर्मात्मकस्य वस्तुनः प्रकाशकं प्रमा णवाक्यं कथ मुपपद्यते? इतिचेत्-कालादिभि रभेदवृत्त्या भेदोपचारेणवा द्रव्यपर्यायनयार्पितेन सकलस्य वस्तुनः कथनात् । इति निरूषितं प्राश।
ननु ‘सत्त्वासत्त्वे' इतिद्धन्द्धतमासपदं सत्त्वासत्त्वयोः प्राधान्येन बोधकम् । “ उभयपदार्थप्रधानोद्वन्द्वः” इतिवचनात् , एवंच कथ भवाच्यत्वं सदसत्त्वात्मकवस्तुनः ? इतिचेन्न - इन्द्रस्यापि क. मेणैवा र्थद्वयप्रत्यायन समर्थत्वेन गुणप्रधानभावस्य तत्रापि सत्त्वात् । अतएव - " अभ्यर्हितं पूर्वम् ” इतिप्रधानभूतार्थस्य पूर्वनिपातानुशासनं संगच्छते । अस्तुवा - द्वन्द्व उभयस्यापि प्राधान्येनबोधः । अथापि प्रधानभावना स्तित्व नास्तित्वोभयावच्छिन्नस्य धर्मिणः प्रति पादक शब्दाभाषा दवाच्यत्व मक्षतम् ।
नच - ' सदसत्त्वविशिष्टं वस्तु ' इत्यनेन द्वंदर्भित तत्पुरुषेग सदसत्त्वविशिष्टपदेन तदुभयधर्मावच्छिन्नस्य वस्तुनो बोधसम्भवा
For Private and Personal Use Only