________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी । द्वाभ्यामेव वृक्षशब्दाभ्यां वृक्षद्वयस्य बहुभिरेव वृक्षशब्दै बहूनां वृक्षाणा मभिधाना कशब्दस्य सकृ दनेकार्थ बोधकत्वम् । लुप्तावशिष्टशब्दयो स्लाम्या दक्षरूपार्थस्य समानत्वा चैकत्वो पचारात्त बेकशब्द प्रयोगोपपत्तिः । अभिधानस्य स्वाभाविकत्वपक्षेच वृक्षशब्दो द्विबहुवचनान्त स्स्वभावत एव द्वित्वबहुत्व विशिष्टं वृक्षक पार्थ मभिदधाति । वृक्षावित्यत्रहि वृक्षत्वावच्छिन्नो वृक्षशब्दार्थः, द्वित्वंच द्विवचनार्थः, प्रत्ययार्थस्य प्रकृत्यर्थेऽन्वयात् द्वित्वविशिष्टौ वृक्षाविति बोधः। वृक्षाइत्यत्रच बहुवचनार्थों बहुत्वमिति बहुत्वविशिष्टा वृक्षा इति बोधः ।
यद्यपि द्वितीयपक्ष एकस्यैव वृक्षपदस्या नेक वृक्षबोधकत्वं प्रामम् । तथा प्यनेकधर्मावच्छिन्नार्थबोधकत्व मेकपदस्य नास्तीति - नियमः । एवंच वृक्षा इति बहुवचनान्तेनापि वृक्षपदेन वृक्षरूपैक धर्मावच्छिन्नस्यैव बोधो नान्यधर्मावच्छिन्नस्य । तथाचा स्त्यादि पदेना प्यस्तित्वादि रूपै कधर्मावच्छिन्नस्य बोध स्सम्भवति , नतु - नास्तित्वादि धर्मान्तरावच्छिन्नस्येति ॥
ननु - वृक्षा इति प्रत्ययवती प्रकृतिः पदम् , ". प्तिङन्तं पदम् ” इति वचनात् । तथाच - वृक्षाइति बहुवचनान्तेन बहुत्व वृक्षत्वरूपानेक धर्मावच्छिन्नस्य बोधा देकपदस्था नेक धर्मा वच्छिन्नबोधकत्वं नास्तीति नियमस्य भंगप्रसंगः । तदुक्तम्" अनेकमेकंच पदस्य वाच्यं वृक्षा इति प्रत्ययव प्रकृत्या।"
इति । इतिचेत्सत्यम्, एकपदस्य प्रधानतयाऽनेकधर्मावच्छिन्नबोधकत्वं. नास्तीति नियमस्यो क्तत्वात् । प्रकृतेच प्रथमती वृक्षशब्दो वृक्षवरूप.
For Private and Personal Use Only