________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी । ननु - यथासङ्केतं शब्दप्रवृत्तिदर्शना शुगप त्सदसत्त्वयो स्तले तित शब्द स्तद्वाचकोऽस्तु , शशानचो यो स्संकेतित सनितिसंझाशब्दघर ; युगप चन्द्रसूर्ययो स्संकेतितपुष्पवन्तादिपदवद्वा । इतिचेन्न । - संकेतस्यापि वाच्यवाचकशक्त्यनुरोधेनैव प्रवृत्तेः । नहि वाच्यवाचकशक्त्यतिलंघनेन संकेतप्रवृत्ति दृष्टचरी । यथा - कर्तु रयसो दारुलेखने शक्ति तथा वज्रलेखनेस्ति , यथावा वनलेखने तस्या शक्ति नेतथा दारुलेखने , यथाच दारुणः कर्मणो 5 यसा लेख्यत्वे शक्ति तथा वज्रस्यास्ति , यथावा वज्रस्य तत्राशक्ति नतथा दारुणोपीति , निश्चयः । एवं शब्दस्यापि सकृ देकस्मि नेवार्थे प्रतिपादनशक्ति रनेकस्मि बर्थे पुनः प्रतिपादना शक्तिः , तथा - एकस्यैवा र्थस्यै कपदवाच्यताशक्ति नपुन रनेकस्यापीति निश्चयः । पुष्पवन्तादिशब्दानामपि क्रमेणा र्थद्धयप्रतिपादन एव सामर्थ्य मिति न दोषः ॥ __ जनु - सेना वन युद्ध पंक्ति माला पानक ग्राम नगरादि शब्दाना मनेकार्थप्रतिपादकत्वं दृष्ट मिति चेत्र ; - करि तुरग रथ पदाति समूहस्यैवै कस्य सेनाशब्देनाभिधानात , वृक्षसमूहस्य वनशब्देन , पुष्पसमूहस्य मालाशब्देन , गुडादिद्रव्यसमूहस्य पानकशब्देन, प्रासादादिसमूहस्य नगरशब्देन , चाभिधाना, नै कशब्देना नेकार्थ प्रतिपादनं दृश्यते ।
नन्नेवं - वृक्षावितिपदं वृक्षद्वयबोधकं वृक्षाइतिच बहुवृक्षवोधकं कथ मुपपद्यतइति धेत ? पाणिन्यादीना मेकशेषारम्भा जैने न्द्राणा मभिधानस्य स्वाभाविकत्या दिति ब्रमहे । तत्रैकशेषपक्षे
For Private and Personal Use Only