________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शान्त्रमुक्तावळी । त्ववाचकं न सत्तां बोधति । अस्त्यादिपदस्या स्तित्व नास्तित्वोभय धर्मवाचकावेच तदन्यतरपदाप्रयोगप्रसंगः । ____ ननु - सर्वेषां पदाना मेकार्थत्वनियमे नानार्थकपदोच्छेदापत्तिः, इति चेन्न, - गवादिपदस्यापि स्वर्गा बनेकार्थविषयतया प्रसिद्धस्य तत्त्वतो । नेकत्वात् , सादृश्योपचारादेव तस्यकत्वन व्यवहरणात । भन्यथा • सकलार्थस्या प्येकशब्दवाच्यत्वापत्ते रर्थभेदेना नेकशब्दप्रयोग वैफल्यात् । यथैवहि समभिरूढ़नयापेक्षया शब्दभेदा ढुवोऽर्थ भेद स्तथाऽर्थभेदादपि शब्दभेद सिद्धएव । अन्यथा वाच्यवाचक नियमव्यवहार विलोपात् ।
एतेन - एकस्य वाक्यस्य युगप दनेकार्थविषयत्वं प्रत्याख्यातम्, स्यादस्तिनास्त्येव घटः- स्वरूप पररूपादि चतुष्टयाभ्यामिति वाक्य. स्यापि क्रमार्पितोभय विषय धर्मतयो ररीकृतस्य उपचारादेवैकत्वांगीकाराव ॥ अथवा - तत्र क्रमशो विवक्षितम् य दुभयप्राधान्य मेकं , तदेवा स्तिनास्तिशब्दाभ्या मभिहितमिति तादृश वाक्य स्यैकार्थाभिधायित्वादेव कवाक्यत्वमिति नदोषः । सर्वस्य वाक्य स्यैकक्रियाप्रधानतयै कार्थविषयत्वप्रसिद्ध रेकार्थबोधनशक्ति
शब्दस्य सिद्धा । नहि शब्दानां वचनसामर्थ्य सूचनसामर्थ्यवा ऽतिक्रम्या र्थबोधने प्रवृत्ति स्तम्भवति । भस्तिशब्दस्यहि सत्त्वमात्रवचने सामर्थ्य विशेषो ना सत्त्वा धनेकधर्म वचने । निपातानां वाच. कत्वपक्षे स्यादिति शब्दस्या नेकान्तसामान्यवचने सामर्थ्यविशेषो न पुन रेकान्तवचने, ना प्यनेकान्त विशेषवचने, तेषां द्योतकत्वपक्षे चा नेकान्तसूचने सामर्थ्यविशेषो नान्यत्रेति वचनसूचनसामर्थ्य मतिक्रम्य शब्दप्रयोगो वृद्धव्यवहारेषु कापि न दृष्टचरइति ॥
For Private and Personal Use Only