________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। सम्बन्ध मापन्नस्य जीवस्य (१) मण्डूकभवावाप्ती तत्पदषाच्यता मास्कन्दतः पुन युवतिजन्म न्यवाप्ते यशिखण्डक स्सएवायमिति प्रत्यभिज्ञानविषयै कजीव सम्बन्धित्वा त्सएव मण्डूकशिखण्ड इति तस्य प्रसिद्धत्वा मण्डूक शिखण्डस्या स्तित्वम् । मण्डूकशरीरावच्छि नात्मसम्बन्धिनो मण्डूकशरीर समानकालीन शिखण्डस्याभावाच्च । नास्तित्वम् । यदिच देवदत्तादिशब्दो मण्डूकादिशब्दश्च तत्त. च्छरीरवाचकएव , देवदत्तउत्पन्नो विनष्ट इत्यादि व्यवहारात्, सच बन्धम्प्र त्येकत्वेन वर्तमानस्य जीवस्यापि बोधको भवतीति मतं । तदा मण्डूकशरीराकारेण परिणत पुद्गल (२) द्रव्यस्या प्यनाद्यन्त. परिणामस्य क्रमेण युवतिभुक्ताहारादि केशभावान्त परिणामा च्छि खण्डक निष्पत्ते मण्डूकशिखण्डस्थास्तित्वम् , मण्डूकशरीररूपेण परिणतपुद्गलद्रव्यस्थ तत्काले केशपरिणामाभावाञ्च नास्तित्वं सि.
यति । एवं वन्ध्यापुत्र शशनरखरविषाण कूर्मरोमादिष्वपि योज्यम् । आकाशकुसुमेतु - अस्तित्व नास्तित्वो पपत्तिरित्थम् । यथा - वनस्पतिनाम कर्मोदयापादित विशेषस्य वृक्षस्य पुष्पमिति व्यपदिश्यते , पुष्पभावेन परिणतपुद्गलद्रव्यस्य तादृशवृक्षापेक्षया भि. नत्वेपि तेन व्यानत्वात् ; तथाऽऽकेशेनापि पुप्पस्य व्याप्तत्वं समान मि त्याकाश कुसुम मिति व्यपदेशो युक्तः॥ अथ मल्लिका तो पकारापेक्षया मल्लिकाकुसुम मिति व्यपदिश्यते , नत्वाकाशकुसुम
(१) मण्डूकभवावाप्तिः - मण्डूकजन्मप्राप्तिः ।
(२) एतन्मते परमाणुस्थानीयं पुद्गलाख्यं द्रव्य मंगीक्रियते। परमाणुरेव वा।
For Private and Personal Use Only