________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। ननु - अस्तित्वमेव वस्तुनस्स्वरूपं, नपुन नास्तित्वं , तस्य पररूपाश्रयत्वात् । यदिच पररूपाश्रितमपि नास्तित्वं वस्तुनः स्वरूपं , तदा पटगतरूपादिकमपि घटस्य स्वरूपं स्यात् ; इति चेन्न उभयस्यापि स्वरूपत्वे प्रमाणसद्भावात् । तथाहि - घटस्य स्व रूपाचवच्छिन्नास्तित्वं पररूपाद्यवच्छिन्न नास्तित्वंच प्रत्यक्षेणैव गृह्यते । घटो घटत्वेनास्ति पटत्वेननास्ती त्यबाधित प्रतीतेः । अनुमानप्रयोगश्च - अस्तित्वं स्वभावेना विनाभूतं- विशेषणत्वात , सा धर्म्यवत् । यथा साधर्म्य वैधhणा विनाभूतं - तथास्तित्वं वभावेन नास्तित्वेना विनाभूतम् । अविनाभूतत्वंच नियमेनै काधिकरणवृत्तित्वम् ॥
ननु - घटो ऽभिधेयः प्रमेयत्वा दित्यादिहेतौ वैधर्माविरहेपि सा. धर्म्यम् दृश्यतइति साधर्म्यस्य वैधाविनाभूतत्वाभावा न दृष्टान्तसंग तिः, इतिचेदुच्यते । साधर्म्यन्नाम साध्याधिकरणवृत्तित्वेन निश्चितत्वं । वैधयंच साध्याभावाधिकरणावृत्तित्वेन निश्चितत्वम् । एवंचा भिधेयत्वाभावाधिकरणे शशशृंगादा ववृत्तित्वेन निश्चितत्वं प्रमेयत्वस्य वर्त त इति तादृशतो वैध मक्षत मिति ।
एवं-नास्तित्वं स्वाभावेना स्तित्वेना विनाभूतम् , विशेषणत्वात् । वैधर्म्यवत् , इत्यनुमानेनापि तयो रविनाभावसिद्धिः ।
- ननु-पृथिवी तरेभ्योभिद्यते, गन्धवत्त्वा दित्यादि केवल व्यतिरोकि हेतौ वैधयं साधर्येण विनापि वर्ततइति निरुक्तानुमाने दृष्टान्तासंगतिरितिचेन्न । केवलव्यतिरेकिहेतावपि साधर्म्यस्य घटादावेव सम्भधात । इतरभेदाधिकरणे घटे गन्थवत्त्वरूपहेतो निश्चितत्वेन साध म्यस्या क्षतत्वात् । पशभिन्न एव साधयं न पक्ष इति नियमाभावात् ।
For Private and Personal Use Only