________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी ।
रूपं , घटत्वादिकं पररूपम् । प्रमेयं प्रमेयत्वेनास्ति , घटत्वादिना नास्ति ॥ __अन्येतु - "प्रमेयस्य स्वरूपं प्रमेयत्वं , अप्रमेयत्वं पररूपम् । नच - अप्रमेयत्वं प्रमेयत्वाभाव स्तचाप्रसिद्ध इति वाच्यम् ; प्रमेय. स्वाभावस्प शशविषाणादी प्रसिद्धत्वात् । नच - शशविषाणा. दीनां प्रमेयत्वाभावस्य च व्यवहारविषयत्वेन प्रमेयत्वापत्ति रिति वाच्यम् ; तत्साधकप्रमाणाभावेन प्रमेयत्वासिद्धेः । प्रमेयत्वंहि प्र माणजन्यप्रमितिविषयत्वम् , तच्च प्रमाणाभावे नोपपद्यते । एवञ्च निरुक्त स्वरूप पररूपाभ्याम् प्रमेयस्या स्तित्वनास्तित्वोपपत्तिः।” इत्याहुः ॥
ननु - जीवादिद्रव्याणां षण्णां किं स्वद्रव्यं किंवा परद्रव्य म् ? याभ्या मस्तित्वनास्तित्वे व्यवतिष्ठते , द्रव्यान्तरस्या सम्भवात् , इतिचे दुच्यते । तेषामपि शुद्धं सद्रव्य मपेक्ष्यास्तित्वम् तत्प्रतिपक्षं सदभाव मशुद्धद्रव्य मपेक्ष्य नास्तित्व श्चोपपद्यते ॥
ननु - महासत्त्वरूपस्य शुद्धद्रव्यस्य स्वपरद्रव्यादिव्यवस्था कथं ? तस्य सकलद्रव्यक्षेत्रकालभावात्मकत्वात् , तद्व्यतिरेकेणा न्यद्रव्याद्यभावात् । इति चेन्न; - शुद्ध द्रव्यस्यापि सकलद्रव्यक्षेत्रकालाद्यपेक्षया सत्त्वस्य, विकलद्रव्याद्यपेक्षया : सत्त्वस्यच, व्यवस्थि तेः । ' सत्ता सप्रतिपक्षका ' इति वचनात् । ___ एतेन सकलक्षेत्रकालव्यापिनो गगमस्य सकलकालक्षेत्रापेक्षया सत्वं यत्किश्चि क्षेत्रकालापेक्षया । सत्वश्च निरूपितम् प्रतिपत्तव्यम् ।
For Private and Personal Use Only