________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी। सूलान्तकपालाद्यात्मनापि घटोस्ति, तदा घटावस्थायां घटपर्यायस्ये. व कुसूलादिपर्यायस्था प्युपलब्धिप्रसंगः । कुसूलाद्यवस्थायामपि घ. टसत्त्वे घटपर्यायोत्पत्ति विनाशार्थ गुरुप्रयत्न वैफल्यंच । एवं - अन्त राळवृत्ति घटपर्यायात्मनापि यदि घटो नास्ति, तदा तत्काले जलाहरणादिरूपं तत्कार्य नोपलभ्येत ।
__ अथवा - घटादौ प्रतिक्षणं सजातीयपरिणामो जायत इति. तात्र सिद्धान्तसिद्धम् । तत्र ऋजुसूवनयापेक्षया वर्तमानक्षणवृत्ति घट. पर्यायः स्वरूपं , अतीतानागत घटपर्यायएव पररूपं । तत्क्षणवृत्ति स्वभावेन सता घटोस्ति , क्षणान्तरवृत्ति स्वभावेन नास्ति , तथा प्रतीतेः। तत्क्षणवृत्तिस्वभावेनेव क्षणान्तरवृत्ति स्वभावना प्यस्तित्वे एकक्षणवृत्त्येव सर्व स्यात । क्षणान्तरबृत्तिस्वभावेन तन्क्षण: ति स्वभावेना प्यस्तित्वाभावे घटाश्रयव्यवहारस्यैव विलोपापत्तिः । विनष्टानुत्पन्न घटव्यवहाराभावात् ।
___ अथवा - तस्मिन्नेव तत्क्षणवर्तिनि रूपादिसमुदायात्मके घटे पृधुबुनोदराद्याकारः स्वरूपं, इतराकारः पररूपं । तेन पृथुबुनोदराद्या कारण घटोस्ति , इतराकारेणनास्ति; पृथुबुनादराद्याकारसत्त्वे घट व्यवहारसत्त्वं तदभावेतदभावइति तादृशाकारनियतत्वा तद्व्यवहारस्य। पृथुचुनोदराकारेणा प्यस्तित्वाभावे घटस्या सत्त्वापत्तिः, इतराकारणा प्यस्तित्वे तादृशाकारशून्ये पटादावपि घटव्यवहारप्रसंगः ॥ ___अथवा - रूपादिविशिष्टो घट श्चक्षुभगृह्यते इत्यस्मि व्यवहारे रूपमुखन घटागृह्यतइति रूपं स्वरूपं, रसादिःपररूपं । तब रूपामनास्ति , चक्षु रिन्द्रियमात्र ग्राह्यत्वात् । यदि चक्षु ज. न्यज्ञानविषय रतम्या प्यंगीक्रियते , तदा रसनाई न्द्रियकल्पना व्यर्था । यदिच रसादेरिव रूपस्यापि च रिन्द्रिय
For Private and Personal Use Only