________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। वाक्यार्थों निरूप्यते । स्थादस्त्येव घटः, स्यावास्येव घटः, इत्य स्य स्वरूपाद्यवच्छिन्नास्तित्वाश्रयोघटः, पररूपाद्यवच्छिन्न नास्तित्वाश्र योवटः, इतिच बोधः । घटादिरूपे वस्तुनि स्वरूपादिना सत्त्वम् परक पादिनाऽसत्त्वञ्चां गीकरणीयम् । अन्यथा वस्तुत्वस्यैव विलयापतेः स्वपररूपोपादानापोहन व्यवस्थाप्यांह वस्तुनो वस्तुत्वम् !
तत्र घटस्य किं स्वरूपम् ? किंवा पररूपम् ? इतिचेत् ; - घट इत्यादिबुद्धौ प्रकारतया भासमानो घटपदशक्यतावच्छेदकीभूत सष्टशपरिणामलक्षणो यो घटत्वनामको धर्म स्सघटस्य स्वरूपं, पटत्वादिके पररूपम् । तत्र घटत्वादिरूपेणेव पटत्वादिरूपेणापि घटस्य स. त्वे घटस्य पटात्मकत्वमसंगः, पटत्वादिनव घटत्वादिना प्यसत्त्वे सर्वधा शून्यत्वापत्तिः, शशविषाणवत् ।
अथवा-नामस्थापनाद्रव्यभावानां मध्ये यो विवक्षित स्तत्स्वरूपं, इतर स्पररूपम् । तत्र विवक्षितेन रूपेणास्ति अविवक्षितेननास्ति । यदि विवक्षिते नापि रूपेण नास्ति , तर्हि शशविषाणव दसत्त्वमेव घटस्य प्राप्नोति । यदिचा विवक्षितेनापि रूपेणास्ति, तदा नामादीनां परस्परभेदो नस्यात् ।
अथवा - घटत्वावच्छिन्नेषु मध्ये यादृशघटः परिगृहाते, तनिष्ठस्थौ ल्यादि धर्मः स्वरूप, इतरघटादिव्यक्ति वृत्ति धर्मएव पररूपम् । तत्र तादृशस्वरूपेगास्ति, पररूपेणनास्ति । स्वरूपेणा प्यस्तित्वानंगीकारेऽसत्वप्रसंगः पूर्ववत । एवमग्रेपि । तादृशोघटो यदि निरुक्त पररू. पेणाप्यस्ति, तदा सर्वघटाना मैक्यप्रसंगा सामान्याश्रय व्यवहार विलोपापत्तिः ।
अथवा - तस्मिन्नेव घटविशेषे कालान्तरावस्थायिनि पूर्वोत्तर कुसूलान्त कपाला द्यवस्थाकलापः पररूपं, तदन्तराल वृत्ति घट पर्याय स्स्वरूपं , तेन रूपेणास्ति । इतररूपणनास्ति । यदि कु
For Private and Personal Use Only