________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शास्त्रावळी |
२०
च्यते । यएवास्तीति शाब्दो स्तित्वधर्मात्मकस्य वस्तुनो वाचक स्सएवा शेषानन्त धर्मात्मकस्यापि वस्तुनो वाचकइत्येकशब्द वाच्यत्वं शब्देना भेदवृत्तिः । एवं कालादिभिरष्टविधा ऽभेदवृत्तिः पर्यायार्थिक नयस्य गुणभावे द्रव्यार्थिकनयप्राधान्या दुपपद्यते ।
TH
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्येतु नेयं गुणाना मभेदवृत्ति स्थसम्भवति । तथादि तत्र कालेन ताव दभेदवृत्ति नंसम्भवति, समकाल मेकत्र नानागुणानां परस्परविरुद्धाना मलम्भवा त; प्रतिक्षणं वस्तुनो भेदात् । सम्भवे वा तावदाश्रयस्य तावत्प्र कारेण भेदप्रसंगात् ॥ ना प्यात्मरूपेणा भेदवृत्ति स्सम्भवति नाना गुणानां स्वरूपस्य भिन्नत्वात् ; स्वरूपाभेदे तेषां परस्परभेदस्य विरोधात् ॥ नाप्यर्थेनाभेदवृत्तिः, स्वाश्रयार्थस्यापि नानात्वात, अन्यधा नानागुणाश्रयं स्यैकत्व विरोधात् ॥ नापि सम्बन्धेना भेदवृत्तिः, सम्बन्धस्यापि सम्बन्धिभेदेन भेददर्शनात ; यथा दण्डदेवदत्त सम्बन्धा दन्य २छदेवदवदत्त सम्बन्धः ॥ नाप्युपकारेणाभेदः, अनेक गुणैः क्रियमाणस्य चोपकारस्य प्रतिनियत रूपस्था नेकत्वात्; अनेकै रुपकारिभिः क्रियमाणस्योपकारस्यैकत्व विरोधात ॥ नापि गुणिदेशाभेदः, गुणिदेशस्यापि प्रतिगुणं भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसंगात् ॥ नापि संसर्गेणाभेदः संसर्गस्यापि संसर्गिभेदेन भेदात, तदभेदे संसर्गि भेदविरोधात् ॥ नापि शब्देनाभेदः, शब्दस्यार्थभेदेन भि. न्नत्वात्, सर्वगुणाना मेकशब्दवाच्यतायां सर्वार्थाना मेकशब्द वाच्यता पत्त्या शब्दान्तरवैफल्यापत्तेः ॥ एवं तत्वतो स्तित्वादीना मेकत्र वस्तु न्य भेदवृत्ते रसम्भवकालादिभि भिन्नानामपि गुणाना मभेदोपचारः क्रियते ।
एवं निरूपिताभ्या मभेदवृ त्त्यभेदोपचाराभ्या मेकेना स्तिनात्या दिशब्देनो पात्तस्या शेषधर्मात्मकस्य घटादिवस्तुनः स्वात्कारो द्योतकस्वति । इत्येवं पदार्थोनिरूपितः ॥
For Private and Personal Use Only