________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी ।
,
गुणानां नीलरक्ताधुप रंजनं नीलरक्तत्वादिगुणवैशिष्टयसम्पादनमेव तदपि स्वप्रकारकधर्मिविशेष्यक ज्ञानजनकत्व पर्यवसन्नम् स्वस्य स्वानुरक्तत्वकरणंहि अस्तित्वप्रकारक घटविशेष्यकज्ञानजनकत्वम् तादृशो नकारएव नास्तित्वादिभि रशेषधर्मैः क्रियत इलेककार्यजनकत्व मुपकारेणा भेदवृत्तिः । यद्देशावच्छेदेन घटादा वस्तित्वं वर्तते तद्देशावच्छेदेनेव घंटे नास्तित्वादिधर्माः नतु कण्डावच्छेदेना स्तित्वं - पृष्ठावच्छेदेन नास्तित्वमिति देशभेदः, इत्येकदेशावच्छिन्नवृत्तित्वं गुणिदेशेना भेदवृत्तिः । यएव चैकवस्वात्मना स्तित्वस्य संसर्ग स्सएवा परधर्माणामपीत्येकसंसर्गप्रतियोगित्वं संसर्गेणा भेदवृत्तिः " ननु सम्बन्ध संसर्गयोः को विशेषः ? इति ने दुच्यते | कथंचि तादात्म्यलक्षणे सम्बन्धे भेदः प्रधानं भेदो गौणः, संसर्गेतु भेदः प्रधान मभेदो गौगः इति विशे घः 1 कथंचि तादात्म्यहि कथंचि द्भेदाभेदोभयरूपम् । तत्र भेदविशिष्टाभेद सम्बन्ध इत्युच्यते । अभेदविशिप्रभेदश्व संसर्ग इत्यु -
3
For Private and Personal Use Only
1
,
१९
भस्ति
c
वैशिष्ट्यसम्पादन रूपम् । नीलादिगुणै र्घटादिषु क्रियमाणस्य स्वा नुरंजनरूपस्य स्वानुरक्तत्वकरणस्य नीलादिगुणवैशिष्ट्य सम्पादनरूपतादर्शनात् । स्ववैशिष्टयसम्पादनमपि स्वप्रकारकधर्मिविशेष्यक ज्ञानजनकत्वरूपं पर्यवस्यति । घटादिषु क्रियमाणस्य नीलाविगुणवैशिष्ट्यसम्पादनस्य घटादिविशेष्यक नीलादिगुणप्रकारक ज्ञानजनकत्वापेक्षयातिरिक्तत्वादर्शनात् । एवंच स्वानुरक्तत्वकरण मन्तत स्स्वप्रकारकधविशेष्यक ज्ञानजनकत्वरूपमेव निष्पन्नम् । तथाचा स्तित्वेना स्तित्वपकारक घटविशेष्यकज्ञानस्यैव नास्तित्वेन नास्तित्वप्रकारक घटविशेष्यकज्ञानस्य जनना दस्तित्वनास्तित्वाद्यो स्स्वप्रकारकधर्मिविशेष्यक ज्ञानजनकस्वपर्यवसन स्वानुरक्तत्वकरण रूपैककार्यजनकत्वा दुपकारणाभेदवृत्ति रुपपद्यते ॥