________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
शास्त्रमुक्तावळी । मन्यते । तदा कथ मन्यव्यावृनिशब्दो विधिरूपेणा न्यव्यावृत्ति को धयति । नच · भन्यन्यावृत्तेरपि तदितरव्यावृत्तिरूपेणैवा न्य व्यावृत्तिशब्दा दोधइति वाच्यम् । तथा सति तदन्यव्यावृत्ते रपि तदितरव्यावृत्तिरूपेण बोधस्य वक्तव्यतया 5 नवस्थापत्तेरिति । तथाच · षाक्ये ऽवधारणं ताव दनिष्टार्थनिवृत्तथे' इति सिद्धम् ॥
अयं चैवकारस्त्रिविधः , अयोगव्यवच्छेद बोधकः अन्ययोग व्यवच्छेद बोधकः अत्यन्ता योग व्यवच्छेद बोधकश्च । इति ।
तत्र विशेषणसंगतैवकारो ऽयोगव्यवच्छेद बोधकः : यथा - शंखः पाण्डरएवेति । अयोगव्यवच्छेदो · नाम - उद्देश्यतावच्छेदक समानाधिकरणा भावा प्रतियोगित्वं । प्रकृतचो द्देश्यतावच्छेदक शंखत्वं , शंखत्वावच्छिन्न मुद्दिश्य पाण्डरत्वस्य विधानात , तथाच - शंखत्वसमानाधिकरणो योऽत्यन्ताभावः, न ताव पाण्डरत्वाभावः , किन्त्वन्याभावः , तदप्रतियोगित्वं पाण्डरवे वर्तत इति शंखत्वसमानाधिकरणाभावाप्रतियागिपाण्डरत्ववान् शंख इत्युक्त स्थले बोधः।
विशेष्य संगतैव कारो ऽस्य योगव्यवच्छेदबोधकः । यथा - पार्थएव धनुर्धरइति । अन्ययोगव्यवच्छेदो नाम विशेष्यभिन्नतादात्म्यादि व्यवच्छेदः । तत्रैवकारण पार्थान्य तादात्म्याभावो धनुर्धरे बो. ध्यते । तथाच पार्थान्य तादात्म्याभावव धनुर्धराभिन्नः पार्थ इतिवोधः ॥
क्रियासंगतवकारो त्यन्तायोग व्यवच्छेदबोधकः , यथा - नीलं सरोजं भवत्ये वेति । भत्यन्तायोगव्यवच्छेदो नाम - उद्देश्य तावच्छेदक व्यापकाभावा प्रतियोगित्वं । प्रकृतेचो द्देश्यतावच्छेद के सरोजत्वम् , तद्धमावच्छिन्ने नीलाभेदरूप धात्वर्थस्य विधा नात् । सरोजत्वव्यापको योऽत्यन्ताभावः, न ताव नीलाभदा भावः, कस्मिन् श्चित्सरोजे नीलाभेदस्थापि सत्वात् , अपि स्वन्याभावः, त.
For Private and Personal Use Only