________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। तोभयसहितावक्तव्यत्वप्रतिपादक भंगस्येति नवभंगी प्राप्नोति । इति चेत् ।
अत्राहुः । तृतीयेऽस्तित्व नास्तीत्वोभयस्य प्रधानत्वम् । चतुर्थेचा वक्तव्यत्वरूप धर्मान्तरस्येति न सयो रभेदशंका । अवक्तध्यत्वंचा स्तिस्य नास्तित्व विलक्षणम् । नहि सत्त्वमेव वस्तुनस्स्वरूपं , स्वरूपादिभि स्सस्वस्थेव पररूपादिभि रसत्त्वस्यापि प्रतिपत्तेः। नाप्यसत्त्वमेव । स्वरूपादिभि स्तत्त्वस्यापि प्रतीति सिद्धत्वात् । नापि तदुभयमेष , तदुभवधिलक्षणस्यापि जात्यन्तर स्य वस्तुनो नुभूयमानत्वात् । यथा - दधिगुड (१) चातुर्जात कादि द्रव्योद्भवं पानकंहि केवलदधिगुडायपेक्षया जात्यन्तरत्वेन पानकमिदं सुस्वादु सुरभीति प्रतीयते । नचोभय विलक्षणत्वमेववस्तुन स्स्वरूपमिति वाच्यम् ; वस्तुनि कथांचित्तत्त्वस्य कथंचि दसत्त्वस्यच प्रतीतेः । दधिगुड चातुर्जालकाधद्भवे पानके दध्या दि प्रतिपत्तिवत् । एवमुप्तरत्रापि बोध्यम् । तथाच विविक्तस्वभावानां सप्तधर्माणां सिद्धे स्वद्विषय खंशयजिज्ञासादि क्रमेण सप्तम. तिवचनरूपा सप्तभंगी सिद्धेति ॥
इयंच सप्तभंगी द्विविधा - प्रमाणसप्तभंगी नयसप्तभंगीचे. ति । किंपुनः प्रमाणवाक्यम् , किंवा नयवाक्यमिति चेत ?
भत्र केचित; - सकलादेशः प्रमाणवाक्यं , विकलादेशो नयवाक्यम् . अनेकधर्मात्मक वस्तुविषयक बोधजनक वाक्यत्वं सकलादेशत्वं , एकधर्मात्मकवस्तुविषयक बोधजनकवाक्यत्वं वि. कलादेशत्वं इत्याहुः ।।
(१) लवंगत्वक, पत्रकं, नागकेसरः, एलाचेति चतुर्णा वस्तूनां चातुर्जातकमितिनाम । 'सकेसरं चतुर्जातं त्वक्पौल न्त्रिजातक ' मि त्यष्टांगहृदये।
For Private and Personal Use Only