________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी ।
तदेवन, सत्त्वा तत्त्वयो भेदाभावात् । यत्स्वरूपेण सत्त्वं तदेव पररू पेणा सत्त्वं । साथाच न प्रथमद्वितीयभंगौ घटेते । तयोरन्यतरेणैव गतार्थत्वात् । ५. वंच तृतीयादिभंगाभावा कुतस्तप्तभंगी ? - इतिचेत् ।
अत्रोच्यते । स्वरूपाद्यवच्छिन्नं सत्त्वम्, पररूपाद्यवच्छिन्नम सत्त्वमित्यवच्छेदेकभेदा तयो भेदसिद्धेः 1 अन्यधा स्वरूपेणेव पररूपेणापि सत्त्वरजंगात् । पररूपेणेव स्वरूपेणा प्यसत्वप्रसंगाच ।
7
किंच सत्वं हि वृत्तिमत्वं भूतले घटोस्तीत्यादो भूतलनिरूपित वृत्तित्ववान्घटइति बोधात् । असत्त्वचा भावप्रतियोगित्वम्, भूतलेघटोनास्तीत्यादौ भूतल निष्ठाभावप्रतियोगी घट इतिबोधात् । तथाचसत्वासत्त्वया स्वरूपभेदोऽक्षतएव ।
अपिच - (१) ये त्रिरूपं हेतु मिच्छन्ति सौगतादयः । येवा (२) पञ्चरूप मिच्छान्तः नैयायिकादयः, तेषामुभयेषामपि देतो स्संपक्षसत्वापेक्षया विपक्षासात्त्वं भिन्नमेवाभिमतं; अन्यथा स्वाभिमतस्य त्रिरूपत्व स्य पंचरूपत्वस्यया व्याघातात् । - इति ।
अथैवमपि कथञ्चि त्वत्त्वापेक्षया क्रमापिं तोभयस्य कोभेदः? नहि प्रत्येकपटपापेक्षया घटपटोभयंभिन्नम् । - इतिचेन्न;
प्रत्येकापेक्षायो भयस्य भिन्नत्वेन प्रतीतिसिद्धत्वात । अतएव प्रत्येक घकार टकारापेक्षया क्रमार्वितोभयरूपं घटपद मतिरिक्त मभ्यु पगम्यते सर्वैः प्रवादिभिः । अन्यथा प्रत्येक घकाराद्यपेक्षया घटपदस्याभिन्नत्वे घकाराद्यच्चारणेनैव घटपदज्ञानसम्भवेन घटत्वावच्छि
(१) पक्षसत्त्वं सपक्षसत्त्वं विपक्षासत्त्वं चेति देतो धर्म त्रयमेवसाध्यसाधने ऽ लमित्ति सौगताः ।
(२) नैयायिकाः पुन रबाधितत्व मसत्प्रतिपक्षित त्वचेति रूपद्वयं मे. यित्वा पंचरूपोपशमेव लिंग मित्याहुः ।
For Private and Personal Use Only