SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । इति विष्णु पुराणेनासंख्येयतावचनात् तु प्रधानस्य व्यक्तिबहुत्वसिद्धिरिति॥ १२६ ॥ प्रधानाख्यानां जगत्कारणगुणानामन्योऽन्यविवेकाय तेषामयान्तरमपि वैधयं सिद्धान्तयति । विविधजगत्कारणत्वोपपत्तये च। न ह्यकरूपात् कारणाविचित्र कार्याणि सम्भवतौति। प्रौत्यप्रौतिविषादाद्यैर्गुणानामन्योऽन्यं वैधHम् ॥ १२७॥ गुणानां सत्त्वादिद्रव्यत्रयाणामन्योऽन्य सुखदुःखाद्यवैधम्य कार्येषु तद्दर्शनादित्यर्थः । सुखादिकं च घटादैरपि रूपादियदेव धर्मोऽन्तःकरणोपादानत्वादन्य कार्याणामित्युताम् । व्यत्रादिशब्दग्राह्याः पञ्चशिखाचार्य रुताः। यथा सत्त्वं नाम प्रसादलाघवाभिष्वङ्गप्रीतितितिक्षासन्तोषादिरूपानन्तभेदं समासतः सुखात्मकम्। एवं रजोऽपि शोकादिनानाभेदं समामतो दुःखात्मकम् । एवं तमोऽपि निद्रादिनानाभेदं समासतो मोहात्मकमिति । अत्र प्रोत्यादीनां गुणधर्मत्ववचनादागामिसूबे च लघुत्वादेर्वक्ष्यमाणत्वात् सत्त्वादीनां द्रव्यत्व सिद्धम् । सुखाद्यात्मकता तु गुणानां मनसः सङ्कल्पात्मकतावद्धर्मधयभेदादेवोपपद्यते। न वैशेषिकोकाः सुखादय एव सत्त्वादिगुणा इति । सत्त्वादित्रयमपि व्यक्तिभेदादनन्तम् । अन्यथा हि विभुमात्रत्वे गुणविमर्दवैचित्रमात् कार्यवैचिवामिति सिद्धान्तो नोपपद्यते विम वान्तरभेदासम्भवात् ॥ १२७ ॥ गुणानां सत्त्वादौनामकैकव्यक्तिमावत्वे वृद्धिह्रासादिक नोपपद्यते तथा परिच्छिन्नत्वं च तत्समूहरूपस्य प्रधानस्य परिच्छिन्नत्वापत्त्या श्रुतिस्मृतिसिद्धमेकदासंख्य ब्रह्माण्डादिक For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy