________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
सांख्यदर्शनम् । सर्वक्रियासाधारण्य न कारणत्वाब कार्येकदेशमात्रकारित्वम् । न च क्रिया कर्मैव वक्ता शक्यते। प्रकृतिक्षोभात् सृष्टिश्रवणेन प्रकृतेरपि कर्मवत्तयात्र सक्रियत्वापत्तेरिति। अनेकत्वं सर्गभेदेन भिन्नत्वम् । मर्गहयासाधारण्यमिति यावत्। न पुन: सजातीयानेकव्यक्तिकत्वम्। प्रकृतावतिव्याप्तेः। प्रकृतेरपि सत्त्वायनेकरूपत्वात्। सत्त्वादीनामतधर्मत्वं तद्रूपत्वादित्यागामिसूत्रादिति। आश्रितत्वं चाक्यवेष्विति ॥ १२४ ॥ ___ कार्य कारणयोर्भेदे हेतुमत्त्वादि सिध्यतीत्यत: कारणा. तिरिक्त कार्य सिद्धी प्रमाणान्याह ।
आजस्थादभेदतो वा गुणसामान्यादेस्तत्सिद्धिः प्रधानव्यपदेशादा ॥ १२५ ॥
तमिद्धिलिङ्गाख्यकार्यस्य कारणातिरेकत: सिद्धिः कचिदाञ्जस्यात् प्रत्यक्षत एवानायासेन भवति। यथा स्थौल्यादिना धर्मेण तन्वादिभ्यः पटादौनाम् । कचिच्च गुणसामान्यादेरभेदतो गुणसामान्याद्यात्मकत्वेन लिङ्गेनानुमानेन भवति । यथाध्यवसायादिगुणात्मकत्वरूपेण कारणवैधर्म्यग्ण महदादीनाम्। यथा च महापृथिवौत्वादिसामान्यात्मकतारूपेण तन्माववैधhण पृथिव्यादौनाम् । क्वचित् त्वादिशब्दग्रहीतन कर्माद्यात्मकतावैधयेण। यथा स्थिरावयवेभ्योऽतिरिक्तस्य चञ्चलावयविनः । तथा प्रधानव्यपदेशात् प्रधानश्रुतेरपि कारणातिरिक्त कार्यसिद्धिर्भवति। प्रधीयतेऽस्मिन् हि कार्य जात. मिति प्रधानमुच्यते। तच्च कार्य कारणयोर्भेदाभेदी विना न घटते । अत्यन्ताभेदे खस्याधारवासम्भवादिव्यर्थः । कार्याणां साधम्यरूपं लक्षणं कारणातिरिक्त कार्येषु प्रमाणं च सूत्राभ्यां दर्शितम् ॥ १२५ ॥
For Private And Personal Use Only