SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः । व्यक्तावस्था सतामेव कार्याणामभिव्यक्तिसिडेः तथाप्यभिव्यक्त: प्रागभावादिखीकारापत्तिरिति चेन्न । तिसृणामनागताद्यवस्थानामन्योऽन्यस्याभावरूपतयोक्तत्वात् । तादृशाभावनिवृत्त्यैव च कारणव्यापार साफख्यादिसम्भवात् । अयमेव हि सत्कार्य्य वादिनामसत्कार्य्यवादिभ्यो विशेषो यत् तैरुभ्यमानी प्रागभावध्वंसौ सत्कार्य्य वादिभिः कार्य्यस्यानागतातीतावस्थे भावरूपे प्रोच्येते । वर्त्तमानताख्या चाभिव्यक्त्यवस्था घटाद्यतिरिक्तेष्यते । घटादेरवस्थात्मयवत्त्वानुभवादिति । अन्यत् तु सर्वं समानम् । अतो नास्त्यस्यास्वधिकशङ्खावकाश इति दिक् ॥ १२३ ॥ कार्यदर्शनात् तदुपलब्ध रिति सूत्रेण कार्य्येण मूलकारणमनुमेयमित्यक्तं तत्र कियत्पय्र्यन्तं कार्य्यं मित्यवधारfaतु सर्वकार्याणां साधर्म्यमाह । हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं ८७ लिङ्गम् ॥ १२४ ॥ कारणानुमापकत्वाल्लयगमनाद्दात्र लिङ्गं कार्य्यं जातम् । न तु महत्तत्त्वमात्रमत्र विवचितं हेतुमत्त्वादीनामखिलकार्य्यसाधारण्यात् । हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम ॥ इति कारिकायामप्यत एव व्यक्ताख्यं सर्वं कार्य मेव लिङ्गमित्युक्तम् । तथा च तलिङ हेतुमत्त्वादिधर्मकमिति वाक्यार्थः । तव हेतुमत्त्वं कारणवत्त्वम् । अनित्यत्व' विनाशिता । प्रधानस्य या व्यापिता पूर्वोक्ता तद्वैपरीत्यमव्यापित्वम् । सक्रियत्वमध्यवसायादिरूपनियतकाय कारित्वम् । प्रधानस्य तु ¡ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy